"जीन् ब्याप्टिस्ट् लामार्क्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३४:
अनेन जीन् ब्याप्टिस्ट् लामार्केन १८०९ वर्षे प्रकटिते '''“प्राणिविज्ञानदर्शनम्”''' इति पुस्तके विकासवादः विवृतः अस्ति । '''“बाह्यस्य परिसरस्य कारणतः कस्मिंश्चित् प्राणिनि यः परिणामः जायते सः अग्रिमे वंशे (जनाङ्गे) (Generation) अपि अनुवर्तते”''' इति सः तत्र प्रतिपादितवान् अस्ति । उदाहरणार्थं दीर्घकण्ठी (Giraffe) उन्नते स्थाने विद्यमानानि पर्णानि खादितुं पुनः पुनः [[कण्ठः|कण्ठं]] दीर्घीकरोति स्म । तस्मात् कारणात् अग्रिमे वंशे तेषां प्राणिनां कण्ठः दीर्घः एव जातः । उपयोगानुसारम् अवयवः वर्धते अथवा नश्यति इति सिद्धान्तं सः प्रत्यपादयत् । अस्य सिद्धान्तः बहुभिः परीशील्य तिरस्कृतः । अतः सः जीन् ब्याप्टिस्ट् लामार्क् जीवनस्य अन्तिमे काले अन्धः, निर्धनः, जुगुप्सितः च सञ्जातः । १८२९ तमे वर्षे डिसेम्बर्–मासस्य १८ दिनाङ्के इहलोकम् अत्यजत् ।
 
[[वर्गः:वैज्ञानिकाःअन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जीन्_ब्याप्टिस्ट्_लामार्क्" इत्यस्माद् प्रतिप्राप्तम्