"फ्रान्सिस् गाल्टन्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः २३:
अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे [[ब्रिट्न्]] तथा [[अमेरिका]]–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।
 
[[वर्गः:वैज्ञानिकाःअन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/फ्रान्सिस्_गाल्टन्" इत्यस्माद् प्रतिप्राप्तम्