"म्याथयास् जेकब् ष्लेडन्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३२:
अयं म्याथयास् जेकब् ष्लेडेन् (Matthias Jakob Schleiden) सस्यानां कोशसिद्धान्तस्य निरूपकः । अयं १८०४ वर्षे एप्रिल्-मासस्य ५ दिनाङ्के [[जर्मनी]]देशस्य ह्याम्बुर्ग् इति प्रदेशे जन्म प्राप्नोत् । अयं [[न्यायशास्त्रम्]] अधीत्य तद्विषये प्रशिक्षणम् अपि प्राप्तवान् आसीत् । परन्तु तस्य मनः तां वृत्तिं न अङ्गीकरोति स्म । तस्मात् कारणात् जीवने जुगुप्सां प्राप्य आत्महत्यार्थम् अपि प्रयत्नम् अकरोत् । किन्तु सः तस्मिन् प्रयत्ने सफलः नाभवत् । तदनन्तरं सः विनोदार्थम् अभ्यस्तं [[सस्यशास्त्रम्]] एव जीवनाधाररूपेण स्व्यकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् सस्यानां वर्गीकरणम् एव प्रमुखलक्ष्यरूपेण स्वीकृतवतां विज्ञानिनां विरोधं कुर्वन् १८३८ तमवर्षात् आरभ्य सस्यानाम् अङ्गांशान् गभीरतया अभ्यस्तवान् । एतत् एव कार्यं प्राणिनां विषये अग्रिमे वर्षे (१८३९) [[थियोडोर् स्छ्वान्]] अकरोत् । अयं म्याथयास् जेकब् ष्लेडेन् जीवकोशे विद्यमानं [[कोशकेन्द्रम्]] एव सम्यक् अभ्यस्य "जीवकोशस्य विभागस्य कोशकेन्द्रस्य च सम्बन्धः अस्ति” इत्येतं विषयं संशोधितवान् । अयं म्याथयास् जेकब् ष्लेडेन् १८३९ तमे वर्षे ज्ना–विश्वविद्यालये प्राध्यापकपदं प्राप्नोत् । अयं [[चार्ल्स डार्विन|डार्विनस्य]] विकासवादम् अङ्गीकृतवान् आसीत् । सः म्याथयास् जेकब् ष्लेडेन् १८८१ तमे वर्षे जून्-मासस्य २३ तमे दिनाङ्के जर्मन्-देशस्य फ्र्याङ्क्फर्ट् इति प्रदेशे विधिवशः सञ्जातः ।
 
[[वर्गः:वैज्ञानिकाःअन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/म्याथयास्_जेकब्_ष्लेडन्" इत्यस्माद् प्रतिप्राप्तम्