"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) removed Category:भारतीयदार्शनिकाः; added Category:मध्ययुगीयधार्मिकव्यक्तयः using HotCat |
(लघु) removed Category:भारतीयदार्शनिकाः; added Category:मध्ययुगीयधार्मिकव्यक्तयः using HotCat |
||
पङ्क्तिः १:
[[चित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना,
== जीवनम् ==
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी ।
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः
कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।
चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-
== उपदेशः ==
पङ्क्तिः ३०:
[[चित्रम्:Chaitanya sankirtan.jpg|thumb|चैतन्यसङ्कीर्तनम्]]
== चैतन्यसम्प्रदायः ==
शिक्षाष्टकं विना चैतन्यमहाप्रभुणा न किमपि लिखितम् । शिक्षाष्टकमपि तेन न लिखितम् अपि तु उक्तम् । तत् केनचित् समीपवर्तिना ध्वनिमुद्रितम् । एतेषु अष्टसु श्लोकेषु गौडीयवैष्णवमतस्य समग्रतत्त्वानि विद्यन्ते । स्वस्य भक्तितत्त्वानां व्यवस्थितक्रमेण उपस्थापनाय तेन षट् अनुयायिनः प्रार्थिताः । ते षड् जनाः अग्रे
नरोत्तमदासठाकूरः, श्रीनिवासाचार्यः, श्यामानन्दपण्डितश्च जीवगोस्वामिनः सकाशात् अध्ययनम् अकुर्वन् । ते पश्चिमवङ्गे, ओरिस्सा इत्यादिषु प्रदेशेषु चैतन्यस्य उपदेशस्य प्रचारं व्यापकतया अकुर्वन् । रामचन्द्रकविराजः गङ्गानारायणचक्रवर्ती च प्रचारकार्यम् अकुर्वन् ।
पङ्क्तिः ३८:
खेतुरि-उत्सवावसरे एदम्प्राथम्येन चैतन्यस्य सर्वे अनुयायिनः एकत्र सम्मिलिताः । तदा नित्यानन्दप्रभोः पत्नी जाह्नवठाकुरानि आध्यक्षम् अवहत् । तादृशेषु उत्सवेषु विभिन्नशाखानाम् अनुयायिनः एकत्र सम्मिलन्ति स्म । अस्मिन् एव समये नित्यानन्द-अद्वैताचार्ययोः शिष्याः विरभद्र-कृष्णमिश्रश्च सम्प्रदायस्य रक्षणाय कौटुम्बिकपरम्पराम् आरब्धवन्तौ । आधुनिकगौडीयसम्प्रदायस्य प्रमुखशाखायाः प्रतिनिधिः अस्ति नित्यानन्दस्य पुत्रः वीरभद्रः । अद्वैताचार्यस्य वंशीयाः अन्ये अनुयायिनश्च वङ्गराज्यस्य ग्रामप्रदेशेषु विशेषपरिश्रमम् अकुर्वन् । चैतन्यस्य युवसहवर्ती वक्रेश्वरपण्डितस्य अनुयायी गोपालगुरुगोस्वामी ओरिस्साराज्ये अन्यां शाखाम् आरब्धवन्तः । सम्प्रदायस्य आन्तरिकपूजाविधानेषु गोपालस्य तच्छिष्यस्य ध्यानचन्द्रस्य च महान् प्रभावः दृश्यते ।
चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता ।
== सांस्कृतिकपरम्परा ==
पङ्क्तिः ५८:
* [[भारतीय-सूची]]
[[वर्गः:मध्ययुगीयधार्मिकव्यक्तयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]][[वर्गः:भाषानुबन्धः योजनीयः]] "
|