"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) removed Category:भारतीयदेशभक्ताः; added Category:भारतीयस्वातन्त्र्ययोधाः using HotCat |
(लघु) removed Category:भारतीयदेशभक्ताः; added Category:भारतीयस्वातन्त्र्ययोधाः using HotCat |
||
पङ्क्तिः १:
पण्डित चन्द्रशेखर 'आजाद'
(२३ जुलाई १९०६ त: २७ फरवरी १९३१)
पं० चन्द्रशेखर आजाद का एक दुर्लभ फोटो
उपनाम : 'आजाद','पण्डित जी','बलराज' व 'Quick Silver'
जन्मस्थलम् : बदरका गाँव[1] , जिला उन्नाव, उत्तर प्रदेश
मृत्युस्थलम् : अल्फ्रेड पार्क, इलाहाबाद, उत्तर प्रदेश
आन्दोलनम् : भारतीय स्वतन्त्रता संग्राम
प्रमुख संगठनम् : हिदुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन-इत्यरस्य प्रमुखसेनापति: (१९२८)
पण्डित चन्द्रशेखर 'आजाद' (२३ जुलाई, १९०६ - २७ फरवरी, १९३१) ऐतिहासिकदृष्ट्या भारतीयस्वतन्त्रतासंग्रामस्य महानसेनानायक: आसीत् । स: पण्डितरामप्रसादबिस्मिल्, भगतसिंहादयानां महानक्रान्तिकारिणाम् अन्यतम: मित्रमपि आसीत् । 1922 ख्रीस्ताब्दे वर्षे गाँन्धिना असहयोग आन्दोलनस्य आकस्मिक् पिधाने तस्य विचारधारा परिवर्तिता, तेन क्रान्तिकारीगतिविधिषु संलग्न: अभूत् । तदैव स: हिन्दुस्तानरिपब्लिकनएसोसियन इत्यस्य समूहस्य सक्रियसदस्यतामपि स्वीकृतवान् । अनया संस्थया स: रामप्रसादबिस्मिलस्य नेत़त्वे 9 अगस्त 1925 ख्रीस्ताब्दे काकोरी काण्डमपि कृतवान् । अनन्तरं भूमिगत: अपि अभवत् । एतदनन्तरं 1927 ख्रीस्ताब्दे वर्षे बिस्मिलमहोदयेन सह एव चतुर्णाम् इतोपि बन्धूनां बलिदानानन्तरं स: समस्तउत्तरभारतस्य क्रान्तिकारीसमूहान् एकत्रीकृत्य हिन्दुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन इत्यस्य समूहस्य गठनं कृतवान् तथा च भगतसिंहेन सह मिलित्वा लाहौरप्रान्ते लालालाजपतरायस्य मृत्यो: प्रतिघात: साण्डर्सवधं कृत्वा स्वीकृतवान् । अनन्तरं देहलीं प्राप्य असेम्बलीविस्फोटकाण्डमपि साधितवान् ।
जन्म प्रारम्भिक जीवनं च
पण्डितचन्द्रशेखराजादस्य जन्म उन्नावजनपदस्य बदरका ग्रामे 23 जुलाई 1906 ख्रीस्ताब्दे वर्षे अभवत् । आजादस्य पिता पण्डित सीताराम तिवारी 1956 ख्रीस्ताब्दस्य अकालकारणात् स्वपैत्रिकस्थानं बदरकां परित्यज्य मध्यप्रदेशस्य अलीराजपुररियासते सेवां प्रदत्तवान् अनन्तरं भावरा ग्रामे न्यवसत् । अत्रैव बालचन्द्रशेखरस्य बाल्यकाल: अतीत: । तस्य मातु: नाम जगरानीदेवी इति आसीत् । आदिवासीप्रदेशे बाल्यकाल: व्यतीत: सन चन्द्रशेखर: अपि भीलबालकै: सह धनुषाभ्यास: सम्यकतया कृत: । एवं विधा लक्ष्यभेदे स: बाल्यकाले एव प्रवीण: अभवत् ।
तदा वाराणसी क्रान्तिकारिणां केन्द्रमासीत् । चन्द्रशेखरस्य मनसि देशस्य बन्धनमुक्त्यर्थं सशस्त्रान्दोलनस्य उपाया: समागता: । स: मन्मथनाथगुप्त एवं च प्रणवेश चटर्जी इत्ययो: सम्पर्के आगत्य क्रान्तिकारीसमूहस्य सदस्यतां स्वीकृतवान् । क्रान्तिकारिणां सह संघ: हिन्दुस्तान प्रजातन्त्र संघ इति नाम्ना ज्ञायते स्म ।
संस्कार:
चन्द्रशेखरस्य स्वभावे तस्य पितु: प्रतिबिम्बनम् आसीत् । स: पितावदेव स्वाभिमानी, हठधर्मी, साहसी वचनदृढ: आसीत् । स: परेषामुपरि अत्याचारं न तु करोति स्म नैव सहते स्म ।
सीतारामतिवारीवर्य: एकस्मिन् उपवने रक्षणकार्यं करोति स्म । बुभुक्षित: सन अपि स: कदापि न तु स्वयमेव उपवनस्य फलं खादति स्म नैव अपरान् अपि फलं ददाति स्म । तस्य एतत् सर्वं गुणं चन्द्रशेखरे अपि आगतम् ।
प्रथमा रोमांचकरी घटना
1919 ख्रीस्ताब्दे वर्षे चन्द्रशेखर: अध्ययने रत: आसीत् तदैव जलियावाला बागकाण्डमभवत् येन देशस्य युवान: उद्वेलिता: अभवन् । यदा गान्धिना 1921 ख्रीस्ताब्दे असहयोगआन्दोलनं प्रारब्धं तदा जनानां रोष: ज्वालामुखीवत् निर्गत: । ते मार्गेषु आगता:, चन्द्रशेखर: अपि विद्यालयस्य छात्रै: सह एव आन्दोलनं भागं गृहीतवान् । तत्र स: रक्षकै: हस्तगत: । न्यायालये न्यायाधीषस्य प्रश्न: अभवत् - किं नाम तव
उत्तरं आगतम् - आजाद
प्रश्न: - पितु: नाम
उत्तरं - स्वतन्त्रता
प्रश्न: - कुत्र निवसति
उत्तरं - कारागारे
न्यायाधीष: अकारणमेव तं प्रति 15 आघातस्य दण्डं निर्धारितवान् । प्रत्येकेन आघातेन सह तस्य मुखात् निर्गच्छति स्म - भारत माता की जय ।
तत: बन्धनात् निमुक्त: सन स: उद्घोषं कृतवान् यत् अद्य आरभ्य अहं फिरंगीवैदेशिकानां हस्ते न पतिष्यामि जीवनपर्यन्तम् । तदा आरभ्य स: कदापि जीवने वैदेशिकानां हस्ते नैवागतम् ।
क्रान्तिकारी संगठनम्
असहयोगान्दोलनस्य अन्तर्गतमेव यदा फरवरी 1922 ख्रीस्ताब्दे चौरी चौरा इत्यस्य घटनाया: अनन्तरं गान्धिना अकारणमेव आन्दोलनं स्थगितं चेत् देशस्य बहव: नवयुवकै: सहैव आजादस्य अपि कॉंग्रेस त: मोहभंग: जात: एवं च पण्डित रामप्रसादबिस्मिल, शचीन्द्रनाथ सान्याल, योगेशचन्द्र चटर्जी इत्यादयै: उत्तरभारतीयक्रान्तिकारिणामेकं दलं हिन्दुस्तानी प्रजातान्त्रिकसंघम् (एच.आर.ए.) इत्यस्य गठनं कृतम् । चन्द्रशेखर: अपि अस्मिन् दले सम्मिलित: अभवत् । अनेन संगठनेन ग्रामस्य धनिकानां गृहे चौरकार्यं कर्तुं विचार: प्रतिपादित: । किन्तु कस्याश्चित् महिलाया: उपरि हस्तं न उत्थापयेम इत्यपि अंगीकृतवन्त: । एकस्मिन् गृहे चौरकार्यं कुर्वन् आजादस्य भुशुण्डिं एकया महिलया स्वीकृते सत्यपि आजाद: तस्या: उपरि हस्तं नोत्थापितवान् । अस्मिन् चौरकार्ये संलग्न: अष्टजनानाम् उपरि यदा ग्रामीणा: आक्रमणं कृतवन्त: तदा बिस्मिलेन महिलाया: हस्तात् आजादस्य भुशुण्डिं स्वीकर्तुं तां एका चपेटिका दत्ता, आजादं कर्षित्वा बहि: आनीतं च । एतदनन्तरं दलेन केवलं सर्वकारीयप्रतिष्ठानेषु एव लुण्ठनकार्यं सम्पादितुं निर्णय: स्वीकृत: । 1 जनवरी 1925 ख्रीस्ताब्दे वर्षे अनेन दलेन सम्पूर्णे भारते पत्रम् आवंटितं ( द रिवोल्युशनरी) इति यस्मिन् दलस्य नीतिनाम् उद्घाटनम् आसीत् । अस्मिन् पत्रे सशस्त्रक्रान्ते: चर्चा आसीत् । इश्तहार इत्यस्य लेखकरूपेण विजयसिंह इति काल्पनिकनाम दत्तमासीत् । शचीन्द्रनाथ सान्याल एतं पत्रं वंटितुं बंगालं प्रति गच्छन् आसीत् तत्रैव मार्गे रक्षकै: तं बाँकुरा स्थाने बन्धने कृत्वा कारागारे पातितं । ''एच. आर. ए.'' इत्यस्य गठनावसरे एव एतेषु त्रिषु प्रमुखेषु (बिस्मिल, सान्याल, चटर्जी) संगठनस्योद्देश्येषु मतवैभिन्यम् आसीत् ।
अस्य संघस्य नीतीनुसारं 9 अगस्त 1925 ख्रीस्ताब्दे काकोरीकाण्डं कृतं किन्तु तत: अपि पूर्वमेव अशफाक उल्ला खॉं एतेषां घटनानां विरोध: कृतवान् । तस्य भयमासीत् यत् अनेन प्रशासनं तेषां दलस्य मूलोच्छेदनं कर्तुं कृतसंकल्पं भविष्यति । अभवत् अपि तदैव । आग्लीया: तु चन्द्रशेखरं गृहीतुं न शक्तवन्त: किन्तु ते सर्वोच्चकार्यकर्तृन् पण्डित रामप्रसाद बिस्मिल, अशफाकउल्ला खॉं, रोशन सिंह इत्यादीन 19 दिसम्बर 1926 ख्रीस्ताब्दे अथ च राजेन्द्रनाथ लाहिडी महोदयं ततोपि 2 दिनपूर्वमेव फॉंसी दत्वा हतवन्त: । अस्मिन् समये प्रायश: दलं निष्कृयमभवत् । प्रायेण एकदा-द्विधा वा चन्द्रशेखरेण भगतसिंहेन सह मिलित्वा बिस्मिलादिक्रान्तिकारिणां मोचनाय प्रयासं कृतं किन्तु सफलतां न प्राप्तवन्त: ।
4 क्रान्तिकारिणां कृते फॉंसी, 16 आजीवनबन्धनदण्डानन्तरं चन्द्रशेखरेण उत्तरभारतस्य सर्वान् क्रान्तिकारिन् आहूय 8 सितम्बर 1928 ख्रीस्ताब्दे देहली राज्यस्य फिरोजशाहकोटलाक्षेत्रे एका गुप्तसभा कृता । अस्यां सभायामेव भगतसिंहमपि प्रचारकार्यस्य प्रमुखदायित्वं दत्तम् । चन्द्रशेखरेण प्रमुखस्य दायित्वं स्वीकृतम् । संगठनस्य नामपरिवर्तनं कृत्वा हिन्दुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन इति कृतम् । संघस्य लक्ष्यमासीत् - युद्ध अन्तिमनिर्णयपर्यन्तं भवेत् । अन्तिमनिर्णय: जय: वा मृत्यु: वा इति ।
चरम सक्रियता
आजादस्य प्रशंसकेषु पण्डितमोतीलाल नेहरू, पुरुषोत्तमदास टंडनयो: नाम अपि प्रसिद्धमस्ति । जवाहरलाल नेहरुमहोदयेन आजादस्य मेलनं आनन्दभवन मध्ये एव अभवत् । नेहरू चन्द्रशेखरआजादस्य विचाराणां विरोधि: आसीत् । स: आजादं प्रति 'फॉंसीवादी मनोवृत्ति' इति अभिधानमपि प्रयुज्ज्यते स्म किन्तु तस्य विरोध: मन्मथनाथगुप्तेन बहुधा कृत: ।
भगतसिंहेन यदा असेम्बलीमध्ये विस्फोटं कृतं तदा आजाद: बहुवारं तस्य मुक्त्यर्थं प्रयासं कृतवान् । भगतसिंह, सुखदेव, राजगुरु: एतेषां त्रयाणां फॉंसीदण्डम् अवरोद्धुं आजाद: दुर्गा भ्रातृजायां दुर्गां गान्धिपार्श्वे प्रेषितं, गान्धिना तु केवलं नकारात्मकप्रतिक्रिया एव प्राप्ता तया । आजाद: आत्मन: बलेन एव झॉंसी कानपुरनगर्यो: स्थानं निर्मापितम् । झॉंसी मध्ये मास्टर रूद्रनारायण, सदाशिव मलकापुरकर, भगवानदास माहौर एवं च विश्वनाथ वैशम्पायनादया: सक्रिया: आसन्, कर्णपुरे च पण्डित शालिग्रामशुक्ल: आसीत् । 1 दिसम्बर 1930 ख्रीस्ताब्दे आजादेन सह मेलनाय गन्तुकाम: शालिग्राम: मार्गे एव रक्षकै: निपातित: ।
बलिदानम्
आजादेन नेहरुणा आग्रह: कृत: यत् स: गान्धिनं प्रेरयेत् भगतादिनां फॉंसीदण्डं आजीवनकारावासदण्डे परिवर्तितुं, किन्तु नेहरू: तेन सह कलह: कृत्वा गन्तुं उक्तवान् । स: तत: साक्षात् अल्फ्रेटपार्कमध्ये गतवान् । एकेन मित्रेण सह तत्र स: मन्त्रणायां व्यस्त: आसीत् तदैव सर्वत: तं आंग्लरक्षका: आविष्टवन्त: । तत्रैव तेन सह युद्धं कुर्वन् आत्मन: अन्तिमगुलिकात: स: आत्मन: प्राणघात: कृतवान् । 27 फरवरी 1931 ख्रीस्ताब्द: इतिहासे वैशिष्ट्यं प्राप्तवान् ।
चन्द्रशेखर आज़ाद: वीरताया: नूतनी परिभाषा लिखितवान् । तस्य मृत्युअनन्तरं आन्दोलनं इतोपि तीव्रतरं जातम् । तस्य बलिदानस्य 16 वर्षानन्तरं 15 अगस्त 1947 ख्रीस्ताब्दे भारतं स्वतन्त्रं जातम् । तस्य स्वप्न: तु पूर्ण: किन्तु तत् द्रष्टुं स: जीवितगात्रेण अस्माकं मध्ये उपस्थित: नासीत् । आजाद: आत्मन: दलस्य क्रान्तिकारिषु आदरदृष्ट्या दृष्ट: सर्वेरपि । सर्वे तं सर्वदा पण्डितजी इति एव सम्बोधितवन्त: । स: वास्तविकअर्थेषु पण्डितरामप्रसाद बिस्मिलस्य उत्तराधिकारी आसीत् ।
द्वारा
संस्कृतजगत्
http://www.sanskritjagat.com/
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः]]
"[[वर्गः:
[[वर्गः:
[[वर्गः:विषयः वर्धनीयः]] [वर्गः:सारमञ्जूषा योजनीया]][[वर्गः:भाषानुबन्धः योजनीयः]] "
|