"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
{{merge|चन्द्रशेखर आजाद}}
पण्डित [[चित्रम्:Chandrashekharji.jpg|thumb|right|200px|<center>'''चन्द्रशेखर 'आजाद' ''</center>]]
==जननम् बाल्यम् च==
(२३ जुलाई १९०६ त: २७ फरवरी १९३१)
'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।
पं० चन्द्रशेखर आजाद का एक दुर्लभ फोटो
 
==असहकारान्दोलनम्==
उपनाम : 'आजाद','पण्डित जी','बलराज' व 'Quick Silver'
तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया [[असहकारान्दोलनम्|असहकारान्दोलनं]] प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलोकयन् बालः चन्द्रशेखरः आरक्षकाणामुपरि पाषाणं प्राक्षिपत् । आरक्षकाः तमनुधावन्तः यत्नेन गृहीत्वा न्यायालयम् अनयन् । तत्र एवं प्रश्नोत्तरमभवत् ।
जन्मस्थलम् : बदरका गाँव[1] , जिला उन्नाव, उत्तर प्रदेश
:न्यायाधीशः - रे बाल ! किं ते नाम ?
मृत्युस्थलम् : अल्फ्रेड पार्क, इलाहाबाद, उत्तर प्रदेश
:चन्द्रशेखरः -आजादः (स्वातन्त्र्यम्)
आन्दोलनम् : भारतीय स्वतन्त्रता संग्राम
:न्यायाधीशः- कस्ते पिता ?
प्रमुख संगठनम् : हिदुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन-इत्‍यरस्‍य प्रमुखसेनापति: (१९२८)
:चन्द्रशेखरः-स्वाभिमानः ।
:न्यायाधीशः - किं वासस्थानम् ?
:चन्द्रशेखरः -कारागृहम् ।
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
==स्वातन्त्र्यान्दोलनम्==
एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
==भारतीयगणराज्यसेनाप्रवेशः==
[[File:The tree at whose platform Azad shot himself.jpg|thumb|इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्]]
आजादः षोडशे वयसि [[रामप्रसाद बिस्मिल|रामप्रसादबिस्मिल्लेन]] आयोजितां [[गणराज्योत्सवः|भारतीयगणराज्यसेनाम्]] आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वाकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायकोऽभूत् ।
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
पण्डित चन्द्रशेखर 'आजाद' (२३ जुलाई, १९०६ - २७ फरवरी, १९३१) ऐतिहासिकदृष्‍ट्या भारतीयस्‍वतन्‍त्रतासंग्रामस्‍य महानसेनानायक: आसीत् । स: पण्डितरामप्रसादबिस्मिल्, भगतसिंहादयानां महानक्रान्तिकारिणाम् अन्‍यतम: मित्रमपि आसीत् । 1922 ख्रीस्‍ताब्‍दे वर्षे गाँन्धिना असहयोग आन्‍दोलनस्‍य आकस्मिक् पिधाने तस्‍य विचारधारा परिवर्तिता, तेन क्रान्तिकारीगतिविधिषु संलग्‍न: अभूत् । तदैव स: हिन्‍दुस्‍तानरिपब्लिकनएसोसियन इत्‍यस्‍य समूहस्‍य सक्रियसदस्‍यतामपि स्‍वीकृतवान् । अनया संस्‍‍थया स: रामप्रसादबिस्मिलस्‍य नेत़त्‍वे 9 अगस्‍त 1925 ख्रीस्‍ताब्‍दे काकोरी काण्‍डमपि कृतवान् । अनन्‍तरं भूमिगत: अपि अभवत् । एतदनन्‍तरं 1927 ख्रीस्‍ताब्‍दे वर्षे बिस्मिलमहोदयेन सह एव चतुर्णाम् इतोपि बन्‍धूनां बलिदानानन्‍तरं स: समस्‍तउत्‍तरभारतस्‍य क्रान्तिकारीसमूहान् एकत्रीकृत्‍य हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसियेशन इत्‍यस्‍य समूहस्‍य गठनं कृतवान् तथा च भगतसिंहेन सह मिलित्‍वा लाहौरप्रान्‍ते लालालाजपतरायस्‍य मृत्‍यो: प्रतिघात: साण्‍डर्सवधं कृत्‍वा स्‍वीकृतवान् । अनन्‍तरं देहलीं प्राप्‍य असेम्‍बलीविस्‍फोटकाण्‍डमपि साधितवान् ।
जन्म प्रारम्भिक जीवनं च
पण्डितचन्‍द्रशेखराजादस्‍य जन्‍म उन्‍नावजनपदस्‍य बदरका ग्रामे 23 जुलाई 1906 ख्रीस्‍ताब्‍दे वर्षे अभवत् । आजादस्‍य पिता पण्डित सीताराम तिवारी 1956 ख्रीस्‍ताब्‍दस्‍य अकालकारणात् स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य मध्‍यप्रदेशस्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं भावरा ग्रामे न्‍यवसत् । अत्रैव बालचन्‍द्रशेखरस्‍य बाल्‍यकाल: अतीत: । तस्‍य मातु: नाम जगरानीदेवी इति आसीत् । आदिवासीप्रदेशे बाल्‍यकाल: व्‍यतीत: सन चन्‍द्रशेखर: अपि भीलबालकै: सह धनुषाभ्‍यास: सम्‍यकतया कृत: । एवं विधा लक्ष्‍यभेदे स: बाल्‍यकाले एव प्रवीण: अभवत् ।
 
तदा वाराणसी क्रान्तिकारिणां केन्‍द्रमासीत् । चन्‍द्रशेखरस्‍य मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनस्‍य उपाया: समागता: । स: मन्‍मथनाथगुप्‍त एवं च प्रणवेश चटर्जी इत्‍ययो: सम्‍पर्के आगत्‍य क्रान्तिकारीसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां सह संघ: हिन्‍दुस्‍तान प्रजातन्‍त्र संघ इति नाम्‍ना ज्ञायते स्‍म ।
 
संस्कार:
 
चन्‍द्रशेखरस्‍य स्‍वभावे तस्‍य पितु: प्रतिबिम्‍बनम् आसीत् । स: पितावदेव स्‍वाभिमानी, हठधर्मी, साहसी वचनदृढ: आसीत् । स: परेषामुपरि अत्‍याचारं न तु करोति स्‍म नैव सहते स्‍म ।
सीतारामतिवारीवर्य: एकस्मिन् उपवने रक्षणकार्यं करोति स्म । बुभुक्षित: सन अपि स: कदापि न तु स्‍वयमेव उपवनस्‍य फलं खादति स्‍म नैव अपरान् अपि फलं ददाति स्‍म । तस्‍य एतत् सर्वं गुणं चन्‍द्रशेखरे अपि आगतम् ।
प्रथमा रोमांचकरी घटना
 
1919 ख्रीस्‍ताब्‍दे वर्षे चन्‍द्रशेखर: अध्‍ययने रत: आसीत् तदैव जलियावाला बागकाण्‍डमभवत् येन देशस्‍य युवान: उद्वेलिता: अभवन् । यदा गान्धिना 1921 ख्रीस्‍ताब्‍दे असहयोगआन्‍दोलनं प्रारब्‍धं तदा जनानां रोष: ज्‍वालामुखीवत् निर्गत: । ते मार्गेषु आगता:, चन्‍द्रशेखर: अपि विद्यालयस्‍य छात्रै: सह एव आन्‍दोलनं भागं गृहीतवान् । तत्र स: रक्षकै: हस्‍तगत: । न्‍यायालये न्‍यायाधीषस्‍य प्रश्‍न: अभवत् - किं नाम तव
 
उत्‍तरं आगतम् - आजाद
प्रश्‍न: - पितु: नाम
उत्‍तरं - स्‍वतन्‍त्रता
प्रश्‍न: - कुत्र निवसति
उत्‍तरं - कारागारे
 
न्‍यायाधीष: अकारणमेव तं प्रति 15 आघातस्‍य दण्‍डं निर्धारितवान् । प्रत्‍येकेन आघातेन सह तस्‍य मुखात् निर्गच्‍छति स्‍म - भारत माता की जय ।
तत: बन्‍धनात् निमुक्‍त: सन स: उद्घोषं कृतवान् यत् अद्य आरभ्‍य अहं फिरंगीवैदेशिकानां हस्‍ते न पतिष्‍यामि जीवनपर्यन्‍तम् । तदा आरभ्‍य स: कदापि जीवने वैदेशिकानां हस्‍ते नैवागतम् ।
 
क्रान्तिकारी संगठनम्
 
असहयोगान्‍दोलनस्‍य अन्‍तर्गतमेव यदा फरवरी 1922 ख्रीस्‍ताब्‍दे चौरी चौरा इत्‍यस्‍य घटनाया: अनन्‍तरं गान्धिना अकारणमेव आन्‍दोलनं स्‍थगितं चेत् देशस्‍य बहव: नवयुवकै: सहैव आजादस्‍य अपि कॉंग्रेस त: मोहभंग: जात: एवं च पण्डित रामप्रसादबिस्मिल, शचीन्‍द्रनाथ सान्‍याल, योगेशचन्‍द्र चटर्जी इत्‍यादयै: उत्‍तरभारतीयक्रान्तिकारिणामेकं दलं हिन्‍दुस्‍तानी प्रजातान्त्रिकसंघम् (एच.आर.ए.) इत्‍यस्‍य गठनं कृतम् । चन्‍द्रशेखर: अपि अस्मिन् दले सम्मिलित: अभवत् । अनेन संगठनेन ग्रामस्‍य धनिकानां गृहे चौरकार्यं कर्तुं विचार: प्रतिपादित: । किन्‍तु कस्‍याश्चित् महिलाया: उपरि हस्‍तं न उत्‍थापयेम इत्यपि अंगीकृतवन्‍त: । एकस्मिन् गृहे चौरकार्यं कुर्वन् आजादस्‍य भुशुण्डिं एकया महिलया स्‍वीकृते सत्‍यपि आजाद: तस्‍या: उपरि हस्‍तं नोत्‍थापितवान् । अस्मिन् चौरकार्ये संलग्‍न: अष्‍टजनानाम् उपरि यदा ग्रामीणा: आक्रमणं कृतवन्‍त: तदा बिस्मिलेन महिलाया: हस्‍तात् आजादस्‍य भुशुण्डिं स्‍वीकर्तुं तां एका चपेटिका दत्ता, आजादं कर्षित्‍वा बहि: आनीतं च । एतदनन्‍तरं दलेन केवलं सर्वकारीयप्रतिष्‍ठानेषु एव लुण्‍ठनकार्यं सम्‍पादितुं निर्णय: स्‍वीकृत: । 1 जनवरी 1925 ख्रीस्‍ताब्‍दे वर्षे अनेन दलेन सम्‍पूर्णे भारते पत्रम् आवंटितं ( द रिवोल्‍युशनरी) इति यस्मिन् दलस्‍य नीतिनाम् उद्घाटनम् आसीत् । अस्मिन् पत्रे सशस्त्रक्रान्‍ते: चर्चा आसीत् । इश्‍तहार इत्‍यस्‍य लेखकरूपेण विजयसिंह इति काल्‍पनिकनाम दत्‍तमासीत् । शचीन्‍द्रनाथ सान्‍याल एतं पत्रं वंटितुं बंगालं प्रति गच्‍छन् आसीत् तत्रैव मार्गे रक्षकै: तं बाँकुरा स्‍थाने बन्‍धने कृत्‍वा कारागारे पातितं । ''एच. आर. ए.'' इत्‍यस्‍य गठनावसरे एव एतेषु त्रिषु प्रमुखेषु (बिस्मिल, सान्‍याल, चटर्जी) संगठनस्‍योद्देश्‍येषु मतवैभिन्‍यम् आसीत् ।
 
अस्‍य संघस्‍य नीतीनुसारं 9 अगस्‍त 1925 ख्रीस्‍ताब्‍दे काकोरीकाण्‍डं कृतं किन्‍तु तत: अपि पूर्वमेव अशफाक उल्‍ला खॉं एतेषां घटनानां विरोध: कृतवान् । तस्‍य भयमासीत् यत् अनेन प्रशासनं तेषां दलस्‍य मूलोच्‍छेदनं कर्तुं कृतसंकल्‍पं भविष्‍यति । अभवत् अपि तदैव । आग्‍लीया: तु चन्‍द्रशेखरं गृहीतुं न शक्‍तवन्‍त: किन्‍तु ते सर्वोच्‍चकार्यकर्तृन् पण्डित रामप्रसाद बिस्मिल, अशफाकउल्‍ला खॉं, रोशन सिंह इत्‍यादीन 19 दिसम्‍बर 1926 ख्रीस्‍ताब्‍दे अथ च राजेन्‍द्रनाथ लाहिडी महोदयं ततोपि 2 दिनपूर्वमेव फॉंसी दत्‍वा हतवन्‍त: । अस्मिन् समये प्रायश: दलं निष्‍कृयमभवत् । प्रायेण एकदा-द्विधा वा चन्‍द्रशेखरेण भगतसिंहेन सह मिलित्‍वा बिस्मिलादिक्रान्तिकारिणां मोचनाय प्रयासं कृतं किन्‍तु सफलतां न प्राप्‍तवन्‍त: ।
 
4 क्रान्तिकारिणां कृते फॉंसी, 16 आजीवनबन्‍धनदण्‍डानन्‍तरं चन्‍द्रशेखरेण उत्‍तरभारतस्‍य सर्वान् क्रान्तिकारिन् आहूय 8 सितम्‍बर 1928 ख्रीस्‍ताब्‍दे देहली राज्‍यस्‍य फिरोजशाहकोटलाक्षेत्रे एका गुप्‍तसभा कृता । अस्‍यां सभायामेव भगतसिंहमपि प्रचारकार्यस्‍य प्रमुखदायित्‍वं दत्‍तम् । चन्‍द्रशेखरेण प्रमुखस्‍य दायित्‍वं स्‍वीकृतम् । संगठनस्‍य नामपरिवर्तनं कृत्‍वा हिन्‍दुस्‍तान सोशलिस्‍ट रिपब्लिकन एसोसियेशन इति कृतम् । संघस्‍य लक्ष्‍यमासीत् - युद्ध अन्तिमनिर्णयपर्यन्‍तं भवेत् । अन्तिमनिर्णय: जय: वा मृत्‍यु: वा इति ।
 
चरम सक्रियता
 
आजादस्‍य प्रशंसकेषु पण्डितमोतीलाल नेहरू, पुरुषोत्‍तमदास टंडनयो: नाम अपि प्रसिद्धमस्ति । जवाहरलाल नेहरुमहोदयेन आजादस्‍य मेलनं आनन्‍दभवन मध्‍ये एव अभवत् । नेहरू चन्‍द्रशेखरआजादस्‍य विचाराणां विरोधि: आसीत् । स: आजादं प्रति 'फॉंसीवादी मनोवृत्ति' इति अभिधानमपि प्रयुज्‍ज्‍यते स्‍म किन्‍तु तस्‍य विरोध: मन्‍मथनाथगुप्‍तेन बहुधा कृत: ।
 
भगतसिंहेन यदा असेम्‍बलीमध्‍ये विस्‍फोटं कृतं तदा आजाद: बहुवारं तस्‍य मुक्‍त्‍यर्थं प्रयासं कृतवान् । भगतसिंह, सुखदेव, राजगुरु: एतेषां त्रयाणां फॉंसीदण्‍डम् अवरोद्धुं आजाद: दुर्गा भ्रातृजायां दुर्गां गान्धिपार्श्‍वे प्रेषितं, गान्धिना तु केवलं नकारात्‍मकप्रतिक्रिया एव प्राप्‍ता तया । आजाद: आत्‍मन: बलेन एव झॉंसी कानपुरनगर्यो: स्‍थानं निर्मापितम् । झॉंसी मध्‍ये मास्‍टर रूद्रनारायण, सदाशिव मलकापुरकर, भगवानदास माहौर एवं च विश्‍वनाथ वैशम्‍पायनादया: सक्रिया: आसन्, कर्णपुरे च पण्डित शालिग्रामशुक्‍ल: आसीत् । 1 दिसम्‍बर 1930 ख्रीस्‍ताब्‍दे आजादेन सह मेलनाय गन्‍तुकाम: शालिग्राम: मार्गे एव रक्षकै: निपातित: ।
 
बलिदानम्
 
आजादेन नेहरुणा आग्रह: कृत: यत् स: गान्धिनं प्रेरयेत् भगतादिनां फॉंसीदण्‍डं आजीवनकारावासदण्‍डे परिवर्तितुं, किन्‍तु नेहरू: तेन सह कलह: कृत्‍वा गन्‍तुं उक्‍तवान् । स: तत: साक्षात् अल्‍फ्रेटपार्कमध्‍ये गतवान् । एकेन मित्रेण सह तत्र स: मन्‍त्रणायां व्‍यस्‍त: आसीत् तदैव सर्वत: तं आंग्‍लरक्षका: आविष्‍टवन्‍त: । तत्रैव तेन सह युद्धं कुर्वन् आत्‍मन: अन्तिमगुलिकात: स: आत्‍मन: प्राणघात: कृतवान् । 27 फरवरी 1931 ख्रीस्‍ताब्‍द: इतिहासे वैशिष्‍ट्यं प्राप्‍तवान् ।
 
चन्द्रशेखर आज़ाद: वीरताया: नूतनी परिभाषा लिखितवान् । तस्‍य मृत्‍युअनन्‍तरं आन्‍दोलनं इतोपि तीव्रतरं जातम् । तस्‍य बलिदानस्‍य 16 वर्षानन्‍तरं 15 अगस्‍त 1947 ख्रीस्‍ताब्‍दे भारतं स्‍वतन्‍त्रं जातम् । तस्‍य स्‍वप्‍न: तु पूर्ण: किन्‍तु तत् द्रष्‍टुं स: जीवितगात्रेण अस्‍माकं मध्‍ये उपस्थित: नासीत् । आजाद: आत्‍मन: दलस्‍य क्रान्तिकारिषु आदरदृ‍ष्‍ट्या दृष्‍ट: सर्वेरपि । सर्वे तं सर्वदा पण्डितजी इति एव सम्‍बोधितवन्‍त: । स: वास्‍तविकअर्थेषु पण्डितरामप्रसाद बिस्मिलस्‍य उत्‍तराधिकारी आसीत् ।
 
द्वारा
संस्‍कृतजगत्
http://www.sanskritjagat.com/
 
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः‎]]
"[[वर्गः:चित्रंभारतस्य योजनीयम्‎इतिहासः]]
[[वर्गः:बाह्यानुबन्धःचित्रं योजनीयःयोजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्