"कार्मिकदिनाचरणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
 
क्रिस्तशक १९१८ तमे वर्षे गात्यादेशे कम्युनिस्ट(समतापक्ष) पक्षस्य अधिकारः आरब्धः अभवत् । तदा कार्मिकाणां कल्याणाय योजनाः रुपिताः आसन् । यन्त्रागाराः अपि अनेके आरब्धाः अभवन् । पञ्चवार्षिकयोजनाः अपि आरब्धाः । एवं विश्वे एव कार्मिकाणां कल्याणकार्यक्रमाः सर्वदेशेषु व्यवस्थिताः सन्ति । सर्वत्र प्रत्येकतया यन्त्रागारेषु स्थलीय सङ्घाः सन्ति । अथापि श्रमयोग्यं वेतनं न ददति । सर्वकारेणापि उत्तमा व्यवस्था कृतास्ति । सा व्यवस्था सर्वकारीय श्र मिकाणां एव उपयोगिनी अस्ति । स्वायत्तसं स्थासु कार्यकतृणां कृषिकार्येषु स्थितानां किमपि उत्तमं सौलभ्यं न भवति ।
 
 
देशे कार्मिकाणां तेषां परिवारजनानां च उत्तमरीत्या सौलभ्यानि दातव्यानि सन्ति । प्रतिदिनम् अष्टघण्टाकार्यकालः भवतु ।क्षेमकार्याणि कर्तव्यानि सन्ति । देशे तत्र तत्र आन्दोलनानि प्रवर्तितानि भवन्ति । अतः कार्मिकदिनाचरणसमये कार्मिकाणां समस्यानां विषये चर्चा करणीया । क्षेमविषये नियोजनाः रुपितव्यानि सन्ति । एवं कार्मिकदिने कार्मिकाणां विरामः भवति । तद्दिनेकार्यक्रमः भवति । कार्मिकाणां सौलभ्यानां विषये च चिन्तनानि भवन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.capetownmagazine.com/public-holiday-workers-day]
 
[[वर्गः:जयन्त्युत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/कार्मिकदिनाचरणम्" इत्यस्माद् प्रतिप्राप्तम्