"वज्जी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
"वज्जाः" अथवा "विरजि" इत्याख्याः ८-९ वंशानां कश्चन समूहः । वज्जाः, लिच्चाविजनाः, विदेहानाः, ज्ञात्रिकाः च तेषु अन्यतमाः आसन् । तेषु वज्जाः प्रमुखाः आसन् । [[मिथिला|"मिथिला"नगरं]] (इदानीन्तनतिरहुत्जनपदस्य जनकपुरम्) विदेहस्य राजधानी आसीत् । एतत् नगरम् [[उत्तरभारतम्|उत्तरभारतस्य]] सांस्कृतिक-राजकीयकार्यक्रमाणां केन्द्रम् आसीत् । राज्ञः [[जनकः|जनकस्य]] काले [[विदेहराज्यम्]] अत्यन्तं प्रसिद्धं जातम् । विदेहस्य अन्तिमः राजा आसीत् "कलरा"नामकः । तस्य अनन्तरं लिच्चाविनाः, विदेहानाः अन्ये च लघुसमूहाः अस्तित्वं प्राप्नुवन् । [[महावीरः|महावीरस्य]] माता लिच्चाविजनानां महाराज्ञी आसीत् । [[वैशाली|"वैशाली"नगरं]] (इदानीन्तनस्य [[उत्तरबिहारम्|उत्तरबिहारस्य]] वैशालीजनपदस्य बसर्हानगरम्) लिच्चाविजनानां राजधानी आसीत् । तत् स्थानं तेषां मैत्रीकूटस्य प्रधानं राजकीयस्थानम् आसीत् । वैशालीनगरं [[गङ्गानदी|गङ्गानदीतः]] २५ मैलयावत् उत्तरे, [[राजगृहम्|राजगृहतः]] ३८ मैलदूरे च आसीत् । तदानीन्तनकाले महताप्रमाणेन वर्धनं जातमासीत् अस्य नगरस्य । [[बौद्धमतम्|बौद्धमतस्य]] द्वितीया सभा अत्रैव प्राचलत् । लिच्चाविजनाः बौद्धमतस्य अनुयायिनः आसन् । भगवान् [[बुद्धः]] अपि बहुवारम् एतत् नगरम् आगतवान् आसीत् । मध्ययुगपर्यन्तं [[नेपालम्|नेपाले]] शासनं कृतवद्भिः राजवंशीयैः सह [[मगधः|मगधजनैः]] सह च एतेषां विवाहसम्बन्धः भवति स्म । इदानीं नेपालेशासनरतानां "शा"राजवंशेन सह तेषां कोपि सम्बन्धः नास्ति । लिच्चाविजनाः वृत्या [[क्षत्रियाः]] आसन् इति [[मनुस्मृतिः|मनुस्मृतौ]] उल्लिखितम् अस्ति । वज्जस्य शक्तियुतं गणराज्यं, लिच्चाविजनानां राजधानी, प्रधानं राजकीयस्थानं च आसीत् यत् "वैशाली"नगरं कालान्तरे मगधस्य राजा [[अजातशत्रुः]] वशीकृतवान् ।
 
[[वर्गः:भारतस्य इतिहासःसाम्राज्यानि‎|वज्जी]]
[[वर्गः:प्राचीनभारतम्|वज्जी]]
"https://sa.wikipedia.org/wiki/वज्जी" इत्यस्माद् प्रतिप्राप्तम्