"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
|celebrations = आ[[भारतम्]]
}}
'''भारतस्वतन्त्रतादिनम्''' ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-hi|Independence Day (India)}}) अगस्त-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम् ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य अगस्त-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन् भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आयोज्यते ।
 
भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम् ब्रिटिश-जनाः, फ्रान्स-जनाः, नेदरर्लैण्ड-देशीयाः, पुर्तुगाल-देशीयाः च आगताः । सर्वे अत्र शासनं अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्मा]] आरभत । [[मङ्गल पाण्डे]], [[झान्सीराज्ञी लक्ष्मीबायी]], [[तात्या तोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्ग्लविरुद्धम् अनेकक्रान्तिमार्गैः युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेल, महात्मा गान्धी, [[भगत सिंह]] [[मदनलाला धिङ्ग्रा]], [[चन्द्रशेखर आजाद]] [[मैलार महादेव]] [[सङ्गोळ्ळीरायण्ण]] [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषां अन्तिमसमयेऽपि मनसि वचने च 'भारतमातुः जय', ‘वन्दे मातरम्’ जयघोषाः भवन्ति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[स्वातन्त्रतान्दोलन|स्वातन्त्रतान्दोलनानि]] अभवन् ।
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्