"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४४:
यदा पुनर्निर्माणस्य पुनर्वसनस्य च कार्यं चलति स्म तदा अपि श्रीमता नरेन्द्रमहोदयेन स्वस्य दूरदर्शित्वं न नाशितम्। गुजरातराज्येन सर्वदा औद्योगिक: विकास: एव लक्षित: आसीत् । परं नरेन्द्रमहोदयेन सर्वाङ्गिणाय - सामाजिकाय आर्थिकाय च विकासाय सुष्ठु-रीत्या सामाजिकक्षेत्रस्य उपरि ध्यानं केन्द्रितं कृत्वा तत् असन्तुलनं समीकर्तुं निर्णय: कृत:। श्रीमता नरेन्द्रमोदीवर्येण पञ्चामृतयोजना कल्पिता। राज्यस्य सर्वाङ्गिणाय विकासाय पञ्चसूत्रीया रणनीति:।
=== विकासपुरुषः नरेन्द्र मोदी ===
[[चित्रम्:Narendra Modi addressing Vijay Shankhnad Rally in Meerut.jpg|250px|right|thumb|'''विजयशङ्खनाद''' इति जनसभायां नरेन्द्र मोदी ]]
तस्य नेतृत्वे शिक्षणं - कृषि: आरोग्यसेवया सहितं नैकेषु क्षेत्रेषु महत् परिवर्तनं दृष्टुं शक्यते। तेन राज्यस्य उज्वलभविष्याय स्वदृष्टि: स्थिरीकृता। नीति-अनुगुणं परिवर्तनम् आनेतुं कार्यक्रमा: आरब्धा:। सर्वकारस्य प्रशासनविभागानां पुन: व्यवस्थां कृत्वा गुजरातं सफलतापूर्वकं समृद्धिपथम् आनीतवान् माननीय: नरेन्द्रमोदीवर्य:। सत्तारूढे सति १०० दिनेषु एव (शतं दिनानाम् अनन्तरमेव) जना: तस्य आशयान् क्षमता: कार्यशैलीं च ज्ञातवन्त:। स्वस्य व्यवस्थापनकुशलताया: स्पष्टदूरदर्शिताया: सच्चारि-त्र्यस्य च कौशलानां कारणत: २००२ तम वर्षस्य दिसम्बरमासस्य सामान्येषु निर्वाचनेषु प्रत्यक्षतया भव्य: विजय: प्राप्त:। एवं च मोदी सर्वकार: विधानसदनस्य १८२ स्थानानि प्राप्य स्पष्टेन बहुमतेन पुन: निर्वाचित:।
विजयोऽयं अङ्कानां (गणनादृष्या) दृष्टया उत्कृष्ट: आसीत् यतोऽहि विपक्षेन कोङ्ग्रेसपक्षेन गुजरातराज्यस्य निर्वाचनाय स्वस्य राष्ट्रीयस्तरीयानां स्त्रोतसाम् उपरि अधिकम् अवधानं दत्तम् आसीत्। विपक्षेण महता प्रमाणेन चालितं निन्दात्मकं प्रचाराभियानं कुशलतापूर्वकं पारं कृत्वा श्री नरेन्द्र मोदीवर्येण मुख्याय विपक्षाय लज्जास्पद: पराजय: प्रदत्त:, यस्य वैशाल्येन मित्राणि शत्रव: च समानतया चकिता: (दिङ्मूढा:) अभूवन्।
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्