"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६४:
 
==अभिनवभारतम्==
पाठशालायां विद्याभ्याससमाप्त्यनन्तरम् उन्नतविद्याप्राप्त्यर्थं विनायकः पूनानगरं गतवान् । तदैव बाबासाहेबचिप्लूणकरस्य पुत्र्या यमुनया सह तस्य विवाहः अभवत् । विनायकः उन्नतविद्याभ्यासार्थं फर्र्ग्युसन्-महाविद्यालये प्रविष्टः । तेन सह तस्य मित्रमेलाप्राणालीमित्रमेलाप्रणाली अपि तत्र प्रविष्टा । सः स्वप्रणालीं सहविद्यार्थिनां कृते निरूप्य तत्राऽपि एकां संस्थाम् आरब्धवान् ।
विनायकस्य प्रेरणया वसतिगृहभोजनशालायां छ्त्रपतेः शिवराजस्य वर्णचित्राविष्कारणं सम्पन्नम् । प्रतिदिनं शिवराजस्य स्तोत्रपठनं, सप्ताहे एकवारं सिंहगढगमनम्, तत्र शिवराजस्य अन्येषां महाराष्ट्रियाणां, विजयनगरीयाणाञ्च हिन्दुवीराणाम् इतिहासाध्ययनम् इत्यादिकमपि आरब्धम् ।
एतानि कार्याणि फलप्रदानि प्रचलन्तीति अमितोत्साहेन विनायकः अग्रजाय गणेशाय पत्रं लिखितवान् । ’बाबा! आगामिग्रीष्मविरामेषु नासिके अस्माकं संस्थायाः सभ्याः सर्वे मिलित्वा एकं सम्मेलनम् आयोजयितुमिच्छामः । देशस्वातन्त्र्यार्थं क्रियमाणे आस्मिन्अस्मिन् अस्माकं सङ्ग्रामे पुरोगमनम् आवश्यकम् । अस्मिन् विषये भवतः अभिप्रायः अपि आवश्यकः ।" इति लिखितवान् ।
 
अनुजस्य लेखं पठित्वा गणेशः अधिकं प्रसन्नः । पूर्वचिन्तनानुसारं ग्रीष्मविरामेषु नासिकनगरे सर्वे सुहृद: मिलितवन्तः । सर्वे मिलित्वा देशहितार्थं करणीयं कार्यमुद्दिश्य बहुविधं चिन्तनं कृतवन्तः । अनेकविधान् तर्कान्, प्रणालीश्च निर्मितवन्तः । स्वरक्तेन परस्परं तिलकं धरितवन्त: । ’देशस्वातन्त्र्यार्त्थं सायुधसङ्ग्रामं कुर्मः’ इति कङ्कणानि बध्दवन्तः । अस्य सम्मेलनबृन्दस्य ते ’अभिनवभारतम्’ इति नामकरणं कृतवन्तः ।
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्