"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०२:
== [[उज्जैन|उज्जयिनी]]-वैशिष्ट्यम् ==
 
मध्यप्रदेशस्य [[उज्जैन|उज्जयिन्याम्]] आदिकविः [[कालिदासः]] (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । [[पुराणम्|पुराणकाले]] अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव [[कृष्णः|कृष्णबलरामयोः]] गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । [[भारतम्|भारते]] विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र [[दीपावलिः|प्रतिदीपावल्यां]] दीपोत्सवः महता वैभवेन आचर्यते । [[गरुडपुराणम्|गरुडपुराणोक्त]]सप्त([[अयोध्या]], [[मथुरा]], [[काशीमाया]], [[काञ्चीकाशी]], [[अवन्तिकाकाञ्ची]], [[पुरीअवन्तिका]], [[द्वारका|द्वारावती]])पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासपर्यन्तं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासपर्यन्तम् उत्तमं वातावरणं भवति ।
 
== महाकुम्भोत्सवः ==
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्