"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

शान्ति मन्त्रः
पङ्क्तिः ४:
[[अथर्ववेदः|अथर्ववेदीया]] इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया [[ब्रह्मविद्या]]याः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् [[ब्रह्मा]] सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय [[अथर्वमहर्षिः|अथर्वमहर्षये]] ब्रह्मविद्याम् उपदिष्टवान् । तदनन्तरम् [[अङ्गिमुनिः]], [[सत्यवाहः]], अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं [[शौनकः]] यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा [[गुरुः]] परापरविद्यायाः उपदेशं कृतवान् ।
==उपनिषत्सारः==
==शान्ति मन्त्रः==
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
व्यशेम देवहितम् यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः॥
===प्रथममुण्डकम्===
प्रथममुण्डकस्य '''प्रथमे खण्डे''' ब्रह्मविद्यायाः परम्परा, परापराविद्ययोः लक्षणानि, आदिब्रह्मणः तपसा अन्ननामरूपादीनाम् उत्पत्तिः च वर्णितानि ।
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्