"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) शान्ति मन्त्रः
पङ्क्तिः २:
 
'''तैत्तिरीयोपनिषत्''' (Taittiriyopanishat) प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः '''शिक्षावल्ली''' इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः '''ब्रह्मानन्दवल्ली''' इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः '''भृगुवल्ली''' इति निर्दिश्यते ।
==शान्ति मन्त्रः==
ॐ शं नो मित्रः शं वरुणः।
शं नो भवत्वर्यमा।
शं न इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः।
नमो ब्रह्मणे। नमस्ते वायो।
त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि।
ॠतं वदिष्यामि। सत्यं वदिष्यामि।
तन्मामवतु।
तद्वक्तारमवतु।
अवतु माम्।
अवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः॥
 
ॐ सह नाववतु |
सह नौ भुनक्तु |
सह वीर्यं करवावहै |
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
 
==शिक्षावल्ली==
शिक्षावल्ल्यां १२ अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्