"बृहदारण्यकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) शान्ति मन्त्रः
पङ्क्तिः १:
==परिचयः==
प्रमुखेषु दशसु [[उपनिषदः|उपनिष]]त्सु बृहदारण्यकोपनिषत् अन्यतमा वर्तते । इयम् उपनिषत् [[शतपथब्राह्मणम्|शतपथब्राह्मणस्य]] अन्तिमभागो वर्तते । अद्यत्वे शतपथब्राह्मणं माध्यन्दिन-काण्वशाखाद्वये उपलभ्यते । काण्वशाखायां सप्तदश काण्डाः, माध्यन्दिनशाखायां चतुर्दश काण्डाः विद्यन्ते । बृहदारण्यकोपनिषदः षट् अध्यायाः काण्वशाखायाः सप्तदशे काण्डे उपलभ्यन्ते । अन्ये षड् काण्डाः माध्यन्दिनशाखायाः चतुर्दशे काण्डे उपलभ्यन्ते ।
==शान्ति मन्त्रः==
ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
ॐ शान्तिः शान्तिः शान्तिः ||
 
==विषयविभागः==
इयम् उपनिषत् गात्रदृष्ट्या विषयस्य महत्तायाः दृष्ट्या च बृहत्तमा एव वर्तते । पूर्णा उपनिषत् गद्यरूपेण एव वर्तते । अपवादरूपेण केचन श्लोकाः कुत्रचित् उपलभ्यन्ते । अस्याः षड् अध्यायाः सप्तचत्वारिंशत्सु ब्राह्मणेषु विभक्ताः सन्ति । ते पुनः काण्डिकारूपेण विभक्ताः सन्ति ।
"https://sa.wikipedia.org/wiki/बृहदारण्यकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्