"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

शान्ति मन्त्रः
पङ्क्तिः ५:
==उपनिषत्सारः==
==शान्ति मन्त्रः==
::'''ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
::'''भद्रं पश्येमाक्षभिर्यजत्राः
::'''स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
::'''व्यशेम देवहितम् यदायुः।
::'''स्वस्ति न इन्द्रो वृद्धश्रवाः।
::'''स्वस्ति नः पूषा विश्ववेदाः।
::'''स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
::'''स्वस्ति नो बृहस्पतिर्दधातु
::'''ॐ शान्तिः शान्तिः शान्तिः॥'''
===प्रथममुण्डकम्===
प्रथममुण्डकस्य '''प्रथमे खण्डे''' ब्रह्मविद्यायाः परम्परा, परापराविद्ययोः लक्षणानि, आदिब्रह्मणः तपसा अन्ननामरूपादीनाम् उत्पत्तिः च वर्णितानि ।
पङ्क्तिः १९:
 
अग्रे '''द्वितीयखण्डे''' तावत् यज्ञप्रधानः [[कर्ममार्गः]] तस्य फलानि, तस्य हीनत्वं, [[ज्ञानमार्गः]], तस्य फलञ्च वर्णितम् । [[अग्निहोत्रम्|अग्निहोत्रस्य]] महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुद्ध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरूपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।
 
==द्वितीयमुण्डकम्==
द्वितीयमुण्डकस्य प्रथमखण्डे एकस्मादेव अक्षरात् अखिलं विश्वं प्राणाः मनः रसः सर्वाणि वस्तूनि च इति ज्ञातवतः सर्वे संशयाः विनश्यन्ति इति प्रतिपादितं विद्यते । अङ्गिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तश्च व्याप्तः विशुद्धः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् असृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि [[सूर्यः|सूर्यस्य]] ज्योतिः विराजते । तस्मादेव वह्नेः [[चन्द्रमाः]] उत्पद्यते । चन्द्रमसः [[पर्जन्यः]] । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, [[प्राणाः]], चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, [[परब्रह्म]] एव अन्तर्यामी आत्मा ।
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्