"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) शान्ति मन्त्रः
पङ्क्तिः २:
प्रश्नोपनिषत् (Prashnopanishat) [[अथर्ववेदः|अथर्ववेदीया]] [[उपनिषदः|उपनिषत्]] । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं [[पिप्पलादः|पिप्पलादं]] यथाविधि उपगम्य [[ब्रह्मविद्या|ब्रह्मविद्यां]] बोधयितुं प्रार्थयन्ते । तानुद्दिश्य पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः [[वेदः|वेदान्]] अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे [[श्रद्धा|श्रद्धया]] [[ब्रह्मचर्याश्रमः|ब्रह्मचर्य]]पूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः ([[सुकेशाः]] [[भारद्वाजः]] [[शैब्यः]] [[सत्यकामः]], [[सौर्यायणी गार्ग्यः]] [[कौसल्यः]] [[आश्वलायनः]], [[वैदर्भी भार्गवः]], [[कबन्धी कात्यायनः]]) आगत्य षट् प्रश्नान् पृच्छन्ति । कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।
==शान्ति मन्त्रः==
::'''ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
::'''भद्रं पश्येमाक्षभिर्यजत्राः
::'''स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
::'''व्यशेम देवहितम् यदायुः।
::'''स्वस्ति न इन्द्रो वृद्धश्रवाः।
::'''स्वस्ति नः पूषा विश्ववेदाः।
::'''स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
::'''स्वस्ति नो बृहस्पतिर्दधातु
::'''ॐ शान्तिः शान्तिः शान्तिः॥ '''
 
==प्रथमप्रश्नः==
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं असृजत् । [[इन्द्रियाणि|इन्द्रियाणां]] गोचराः स्थूलसूक्ष्मादीनि वस्तूनि सर्वाणि जडरूपाणि एव । एतेषु सञ्चलनं यत् कारयति तदेव चैतन्यम् । [[चन्द्रः|चन्द्रमाः]] जडस्वरूपं [[सूर्यः]] चैतन्यस्वरूपम् इति [[ऋषिः|ऋषिभिः]] कल्पितम् । सूर्यः स्वस्य उदयेन चराचरवस्तुषु चैतन्यं जागरयति । चन्द्रलोकः नाम स्वर्गलोकः । [[यज्ञः|यज्ञ]]यागादीनि [[परोपकारः|परोपकार]]कर्माणि यैः क्रियते ते चन्द्रलोकं प्राप्नुवन्ति । इमं मार्गं पितृयानमिति निर्दिशन्ति । सूर्यलोकः नाम [[पुनर्जन्म]]रहितानां मुक्तानां स्थानम् । ज्ञानश्रद्धादिभिः सूर्यलोकः प्राप्यते । अयं मार्गः देवयानमिति निर्दिश्यते । संवत्सरः [[प्रजापतिः]] इति प्रकल्प्य दक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, मासः प्रजापतिः इति प्रकल्प्य निशा-दिवे च जड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति निर्दिष्टम् ।
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्