"केनोपनिषत्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) शान्ति मन्त्रः |
|||
पङ्क्तिः ८:
आर्यऋषीणां दृष्टिः अत्यन्तं सूक्ष्मा आसीत् इति प्रतिपदम् अस्माभिः अवगम्यते । प्रत्येकस्मिन् विषये अपि मूलतत्त्वानाम् अन्वेषणं तेषां सहजः स्वभावः आसीत् ।
==शान्ति मन्त्रः==
==प्रथमखण्डः==
इयमुपनिषत् सामवेदीयतलवकारब्राह्मणे नवमाध्यायान्तर्गता । अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकम् आरभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरूपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।
|