"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा आम्बेडकर: इत्येतत् भीमराव रामजी अम्बेड्कर इत्येतत् प्रति चालितम्
Reverted to revision 257932 by 120.60.88.87: to save content.
पङ्क्तिः १:
{{merge|भीमराव रामजी अम्बेड्कर}}
== बाबासाहेबः भीमरावः रामजी आम्बेडकरः ==
बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः । तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्राप्य धीमान् इति प्रख्यातः अभवत् । तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः
==जन्म, बाल्यं च==
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] अम्बावाडा इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत् । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् ।
 
भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्मल्येन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
 
रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम् इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु [[रामायणम्|रामायण]] - [[महाभारतम्|महाभारतकथाश्रवणम्]] अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः [[आङ्ग्लभाषा|आङ्ग्लभाषां]] गणितं च पाठयति स्म ।
 
रामजी सक्पालः समाजसेवातत्परः आसीत् । [[फुले|फुलेमहात्मना]] प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान्। एवं भीमः पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोधस्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च पठितवान ।
 
भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजीसक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष ।
 
==विद्याभ्यासकारणे पितुः विशेषः परिश्रमः==
भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्य अपि गौरवः भक्तिः च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकरपदम् अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो अभवत् ।
 
यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य [[मुम्बई|मुम्बयीनगरम्]] आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवसरः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्राय आङ्गलभाषां सम्यक् पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थं दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोषयति स्म ।
 
पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन् सम्माननसमारम्भे केलूस्करामहोदयः भीमाय [[गौतमबुद्धः|"गौतमबुद्धः"]] इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् ।
 
पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तःस्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । एवं सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् ।
Line २६ ⟶ २४:
अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः । परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः । भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः । तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाध्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान् । धनार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाध्ययनं कर्तुं निश्चितवान् । अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान् । एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान् ।
 
[[अमेरिकासंयुक्तराज्यम्|अमेरिकादेशस्य]] नवीनपरिसरे जातिभेदरहिते स्वतन्त्रसमाजे भीमजी सन्तृष्टभावेन संशोधनाध्ययनकार्यं कृतवान् । एतादृशे परिसरे तस्य बुद्धिः दिनकरकिरणैः तामरसम् इव विकसिता । दिने दिने प्रौढत्वं प्राप तस्य बुद्धिः । गुरुतरमपि कार्यं कर्तुं शक्यम् इति तस्य आत्मविश्वासः जागरितः । भीमः अमेरिकादेशे एकैकं क्षणमपि सार्थकरीत्या उपयुक्तम् अकरोत् । अमेरिकजनानाम् अत्युन्नतसाधनानि, बृहत्-ग्रन्थालयाः च भीमे महत्त्वाकांक्षां जागरितवन्तः । परदेशस्य आमोद- प्रमोदाः तस्मिन् किञ्चिदपि दुष्परिणामं कर्तुं नाशक्नुवन् ।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥
Line ३४ ⟶ ३२:
भीमः अध्ययनान्ते "भारतीयवाणिज्यम्" इति प्रबन्धं लिखित्वा स्नातकोत्तरपदवीम् अलभत । "भारतस्य राष्ट्रिय-आयस्य चारित्रिकं विवरणात्मकं च अध्ययनम्" इति महप्रबन्धं लिखित्वा पि.एच्. डि पदवीम् अपि सः अलभत । एषः प्रबन्धः आर्थिकक्षेत्रे महाकृतिः इति ख्यातिम् अलभत ।
 
भीमः अमेरिकादेशात् [[लन्डन्|लण्डन्]] नगरं गत्वा अर्थशास्त्रे न्यायशास्त्रे च विशेषाध्ययनं कर्तुम् उद्युक्तः अभवत् । परन्तु विद्यार्थिवेतनस्य अवधिः अतीतः आसीत् । अतः सः अध्ययनसमाप्तेः पूर्वम् एव भारतं प्रात्यागच्छत् । तदा सः "डाक्टोरेट्" उपाधिना अलङ्कृतः अभवत् ।
 
भीमजी महोदयः स्वप्रतिभया प्राध्यापकपदवीम् अलभत् । तथापि तस्य मनः अध्ययनविषये न तृप्तम् आसीत् । अतः सः स्ववेतने अल्पभागम् अध्ययनार्थम् एव उपयुङ्क्ते स्म । ततः १९२० तमे वर्षे लण्डननगरं गत्वा अर्थशास्त्रं न्यायशाश्त्रं च अधीतवान् । तयोः शास्त्रयोः एम्.एस्. सि पदवीम् अदापयत् । ततः सः न्यायशास्त्रे "ब्यारिस्टर्" पदवीम् अपि लब्धवान् । एवं ज्ञानसागरः भूत्वा डा । भीमराव- रामजी- अम्बेडकरमहोदयः भारतं प्रत्यागच्छत् ।
 
समस्तभारतीयानाम् अग्रेसरः भूत्वा सः भार्तीयसंविधानम् अरचयत् ।"आधुनिकमनुः" इति सम्मानितः अपि अभवत् । तस्य सेवां परिगणयन् भारतसर्वकारः [[भारतरत्नम्|"भारतरत्नम्"]] इति उपाधिना तं तस्य जन्मशताब्दसमये सममानयत् । एवं डा ॥ अम्बेडकरमहोदयः सर्वेषां मार्गदर्शकः अभवत् ।
 
[[वर्गः:भारतीयराजनीतिज्ञाः]]
[[वर्गः:मराठजनाः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]][[वर्गः:भाषानुबन्धः योजनीयः]] "
[[वर्गः:महाराष्ट्रस्य व्यक्तयः]]
"
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्