"अग्निः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
==ऋग्वेदे अग्निस्तुतिः==
ऋग्वेदे विद्यमानेषु '''१०२८''' सूक्तेषु '''२१८''' सूक्तानि अग्निपराणि सन्ति । ऋग्वेदस्य प्रथमे सूक्ते '''अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम्''' इत्यत्र अग्नेः स्तुतिः सन्दृश्यते । '''अरणीमन्थनम्''' इति काचित् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । '''मातरिश्वा''','''जातवेदाः''' इत्यादीनि अपराणि नामानि । गृहस्थस्य '''आहवनीय'''-'''गार्हपत्य'''-'''दक्षिणाग्नी'''नामाराधनम् आद्यं कर्तव्यम् । तदेव''' अग्निहोत्रम्''' इत्युच्यते । गृहस्थः निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् ।
 
<!----
पृथ्वीस्थानदेवतासु अग्निः प्रधानः । देवतात्रितये अग्निः प्रधानः । द्विशताधिकाः सूक्ताः अग्निदेवताकाः सन्ति । एतान् विहाय अन्याभिः देवताभिः सह अपि अग्निः स्तुतः अस्ति ।
===सर्वान्तर्यामी अग्निः===
अग्नेः विश्वरूपं साक्षात्कृतवन्तः ऋषयः एनं बहुधा स्तुतवन्तः । आविश्वम् अग्निना धृतं रक्षितं च वर्तते । उदक-दारु-प्राणि-पक्षि-जन-इत्यादिषु स्थावरजङ्गमात्मकेषु सकलपदार्थेषु अपि अग्निः विद्यते । जठराग्नौ सः सर्वेषु तिष्ठति इति गीतायाम् उल्लिखितमस्ति । (ref – ’अहं वैश्वानरो भूत्वा पचाम्यन्नं चतुर्विधम्’) अग्नेः सर्वान्तर्यामित्वम् अधो निर्दिष्टः मन्त्रः स्पष्टं निरूपयति –
<poem>
'''गर्भो यो अपां गर्भो वनानां'''
'''गर्भश्च स्थातां गर्भश्च स्थातां गर्भशर्चथाम् ।'''
'''अद्रौचिदस्मा अन्तर्दुरोणे'''
'''विशां न विश्वो अमृतः स्वाधीः ॥'''१-७०-४)
</poem>
’अग्निः जले विद्यते अपांनपात् संज्ञकरूपेण, अरण्यवृक्षेषु विद्यते दावाग्निरूपेण, काष्ठादिषु स्थावरेषु अपि विद्यते, सञ्चारशीलेषु प्राणिषु जनेषु च जाठराग्निरूपेण विद्यते, अद्रौ विद्यमानस्य अग्नेः हविःप्रदानं कुर्वन्ति । अयम् अमरः, शोभनकर्मयुक्तः । सज्जनः राजा प्रजाः यथा रक्षति तथा अयम् अस्माकं रक्षकः अस्ति ।’
अस्मिन् विषये विविधेषु सूक्तेषु उल्लेखः कृतः अस्ति –
Line ३८ ⟶ ४०:
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य '''सप्तजिह्वा''' इति अपरं नाम ।
===जन्म===
<poem>
’त्रीणि जाना परिभूषन्त्यस्य
समुद्र एकं दिव्येकमप्सु । (१-९५-३)
</poem>
अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च ।
अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९)
Line ४६ ⟶ ५०:
अग्निः त्रिस्थानेषु विद्यते इति उक्तम् । एतं त्रिधादेवताः स्रष्टवन्तः । अस्य प्रकाशः त्रिविधम् (३-२६-७) । अयं त्रिभिः शिरोभिः युक्तः (१-१४६-१) । अस्य जिह्वात्रयं, देहत्रयं, स्थानत्रयम् (३-२०-२) । त्रिषदस्था (६-८-७) इत्येतत् विशेषणं प्रामुख्येन अग्नेः अन्वेति । त्रिपस्तृ इत्येतत् अग्नेः विशेषणम् (८-३९-८) । एवम् अग्निः त्रिमूर्तिरूपः ।
अग्नेः तृतीयं रूपम् अत्युन्नतमिति वर्णयन्ति ।
<poem>
’विष्णुरित्था परममस्य विद्वान्
जातो बृहन्नभि पाति तृतीयम् ।’ (१०-१-३)
</poem> – व्यापनशीलः, ज्ञानादिगुणयुक्तः, महत्तमश्च अग्निदेवः स्वस्य तृतीयं स्थानं रक्षति ।
==त्रिस्थानविवेचनम्==
निरुक्ते यास्काचार्यः अग्नेः त्रिस्थानविवेचनं कुर्वन्ति । ’तमू अकृण्वन् त्रेधा भुवेकम्’ इत्यस्य व्याख्यानं कुर्वन् वदति – ’तमकुर्वन् त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणी’ इति शाकपूणिनाम् अभिप्रायम् उल्लिख्य ’यदस्य दिवि तृतीयं तदसावादित्य इति ब्राह्मणम्’ इति ब्राह्मणस्य आधारम् उदाहरति । एवम् अग्नेः तृतीयं स्थानं द्युलोके विद्यते यत् तत् आदित्यस्य रूपमिति वदति (नि ७-२८) । अग्निः त्रिस्थानेषु विद्यते इत्यतः सः त्रिस्थानरक्षकः अस्ति । द्युलोकस्य प्रधानभूतः, भूलोकस्य सन्नाहकः, द्यावापृथिव्याः अधिपतिः विद्यते ।
<poem>
मूर्धार्दिवो नाभिरग्निः पृथिव्या
अथा भवदरती रोदस्योः ! (१-५९-२)
</poem>
अग्नेः विद्युद्रूपं स्तुतवन्तः ऋषयः । ’धनोरधि प्रवत आस ऋण्वति’ - धनुषः वेगेन आगच्छन् बाणः इव आगच्छति । ’सजायमानः परमोव्योमन्याविरग्निरभवन्मातरिश्वने’ (१-१४३-२) – परमव्योम्नि अयं जायते । मातरिश्वः अग्निम् अन्तरिक्षात् अधः आनयत् इत्युच्यते । एवम् अन्तरिक्षात् भूमिं प्रति अग्नेः आगमनं विद्युद्रूपेण इति ज्ञायते ।
’मूर्धा भुवो भवति नक्तुमग्निः ततः सूर्यो जायते प्रातरुद्यन्’ (१०-८८-६) – अग्निः सूर्यरूपेण उदेति इत्युक्तम् । अपरत्र अग्निः सूर्यस्य प्रकाशेन अन्तर्भवति (५-३८-१) इति उक्तम् । ’ऊर्जोऽनपातमध्वरे दीदिवांसमुपद्यवि । अनिमीळे कविक्रतुम् । (३-२७-१२)
==अग्नेः महिमा==
<poem>
प्र सम्राजो असुरस्य प्रशस्तिं
पुंसः कृष्टीनामनुमाद्यस्य ।
Line ९४ ⟶ १०३:
परियो विश्वा भुवनानि पप्रथे
अदब्धो गोपा अमृतस्य रक्षिता ॥’ (१०-८८-४)
</poem>
==अग्नेः नामानि==
आरण्यां विद्यमाना शक्तिः आविर्भवति इत्यतः अयं शक्तिपुत्रः, ऊर्जोनपात्, सहसस्सूनु । प्रत्येकस्मिन् गृहे प्रतिदिनम् अयम् उत्पद्यते इत्यतः अयं ज्येष्ठः यविष्ठश्च । पूर्वदिनमपि आसीत् इत्यतः ज्येष्ठः, अग्रिमे दिने अपि जनिष्यति इत्यतः यविष्ठः । (उष उषो हिवसो अग्रमेषि) । एवम् अयं पुरातनः नूतनश्च । अमरः नित्ययुवा च । अग्निना एव प्रथमं यज्ञम् आचरितम् इत्यतः (३-१५-४) तस्य अपेक्षया ज्येष्ठः याजकः न विद्यते (५-३-५) । प्रतिदिनमपि अयं तमसः आगच्छति ज्योतिरूपेण । ’तमसो ज्योतिषाङ्गात्’ । अयं घृतपृष्ठः, तपुर्मूर्धा, विश्पतिः, शुचिदन्, गृहपतिः, शुक्रशोचिः (शुब्रज्वालायुतः) च ।
Line १०१ ⟶ १११:
*'''ऋत्विक्, पुरोहितः, होता''' – अयं देवतानां मानवानाञ्च पुरोहितः । ऋत्विजां सर्वाणि कार्याणि अनेन निरूह्यते इत्यतः अयम् अध्वर्युः, ब्रह्मन्, होतृ, अध्वर्युश्च । स्वीयदैवशक्त्या यज्ञनिर्वहणाय साहाय्यम् आचरति अयम् । अग्निः पुरोहितः इव ऋषिः अपि अस्ति । (९-६६-२०) ’त्वमग्ने प्रथमो अङ्गिरा ऋषिः’ (१-३१-१) ’ऋषिः श्रेष्ठः समिध्यसे’ (३-२१-३) इति एतं स्तुतवन्तः । स्वस्य प्रज्ञाबलेन एव अयं सर्वं ज्ञातुं शक्तः – ’कविः काव्येनासि विश्ववित्’ (१०-९१-३) कविक्रुतुः, विश्ववेदः इत्येतानि विशेषणानि तस्य सर्वज्ञत्वं सूचयन्ति ।
*'''रक्षोहन्''' - अग्निदेवः असुरध्वंसं कृत्वा मानवान् पोषयति । अतः अयं रक्षोहन् । स्वीयविस्तृततेजसा दीप्यमानः अग्निदेवः कर्मानुष्ठानेषु विघ्नम् आचरतः शत्रून् राक्षसान् च नाशयति इति एते मन्त्राः सूचयन्ति –
<poem>
'''विपाजसा पृथुना शोशुचानो'''
'''बाधस्व द्वि षो रक्षसो अमीवाः ।''' (३-१५-१)
'''यो अपाचीने तमसि मदन्तीः'''
'''प्राचीश्चकार नृतमः शचीभिः ।''' (३-६-४)
</poem>
* '''ज्योतिप्रदः''' – नेतृतमः अग्निः प्रकाशरहिते अन्धकारे विद्यमानाः प्रजाः उषायाः प्रकाशेन ऋजुगामिनः अकरोत् इत्यतः सः अन्धकारनाशकः, ज्योतिप्रदश्च ।
== अग्निस्सर्वादेवताः==
सर्वाः देवताः अग्नेः रूपमेव इति ऋषयः कथयन्ति । अग्निः एव वरुणः, अग्निः एव मित्रम् (२-१-४) । यागाय आगमनावसरे सः वरुणरूपी (१०-८-५), आरणिभिः यदा उत्पद्यते तदा मित्रम् (५-३-१) ।
अनेकाभिः देवताभिः सह अग्नेः तादात्म्यं वर्णयन्ति एते मन्त्राः –
<poem>
त्वमग्न इन्द्रो वृषभः सतामसि
त्वं विष्णुरुरुगायो नमस्यः ।
Line १३४ ⟶ १४७:
अग्निर्ह नः प्रथमजा ऋतस्य
पूर्व आयुनि वृषभश्च धेनुः ॥ (१०-५-७)
</poem>
==भक्तरक्षकः अग्निः==
भक्तानुग्रही अयं शतशः अयोदुर्गैः प्राप्यमाणं रक्षणम् अयं भक्तेभ्यः ददाति । (७-३-७)
Line १३९ ⟶ १५३:
’विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि’ (२-४-९)
यः यजमानः अग्नये क्षिप्रम् अन्नम् आज्याहुतिं समित् च समर्प्य होमं पोषयति तम् अग्निः सहस्रनेत्रैः पश्यति । ’हे अग्ने ! अस्मदनुकूलः अस्ति भवान्’ इति वदति अयं मन्त्रः –
<poem>
’यो अस्मा अन्नं जुह्वा ददात्याज्यैः
घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्विचक्षेऽग्ने
विश्वतः प्रत्यङ् असित्वम् ॥’ (१०-७९-५)
</poem>
स्वस्य सेवायां निरतेभ्यः भक्तेभ्यः अग्निदेवः सहस्रनेत्रैः दृष्ट्वा तेभ्यः सकलं रक्षणं कल्पयति । सर्वविधं श्रेयः अपि अग्निदेवादेव प्राप्यते । वृक्षेभ्यः शाखोपशाखाः यथा भवन्ति तथा सर्वनिधेः स्वामी अयं भक्तेभ्यः अमितां सम्पदाम् अनुगृह्णाति । भूम्यन्तरिक्षेषु सर्वेष्वपि स्थानेषु अयं सम्पदधिदैवमस्ति । स्वीयकरुणाकटाक्षेण निर्धनत्वं निवारयति अयम् । महामहिमः, परमकरुणालुः अयं कृतज्ञश्च विद्यते ।
==भक्तानां प्रार्थना==
*<poem> ’कदा त उक्था सधमद्यानि
कदा भवन्ति सख्या गृहे ते ।’ (३-३-४)</poem>
भवतः संश्लेषः कदा भवति इति भक्ताः औत्सुक्येन अग्निं पृच्छन्ति ।
* <poem>’अयं योनिश्चकृमा यं वयन्ते
जायेव पत्य उशती सुवासाः । (३-३-२)</poem>
भवतः कृते उत्तरवेदी सिद्धः अस्ति । आगम्यताम् । पत्याम् अनुरक्ता पत्नी शोभनवस्त्रोपेता सती पार्श्वे पत्युः कृते यथा स्थानं कल्पयति तथा भवते उत्तरवेदी सज्जा अस्ति इति प्रार्थयति भक्तः ।
अग्निदेवः मरुभूमौ सम्पदिव – ’धन्वन्निव प्रपा असि’ (१०-४-१)
Line १५५ ⟶ १७१:
मूढाः वयं ज्ञानिनं महात्मानं भवन्तं कथं वा अवगन्तुं शक्नुयाम – ’मूरा अमूर न वयं चिकित्वः महित्वमग्ने त्वमङ्गवित्से’ (१०-४-४)
अग्निदेवः अस्माकं सर्वविधबन्धुः - ’अग्निं मन्येपितरमग्निमापिम् अग्निं भ्रातरं सदमित् सखायम्’ (१०-७-३)
* <poem>’मानो अग्ने सख्या पित्र्याणि
प्रमर्षिष्ठा अभिविदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति
पुरा तस्या अभिशस्तेरधीहि ॥ (१-७१-१०)</poem>
भवतः ध्यानकरणाय अस्मासु उत्तमभावम् अनुगृह्णातु – ’सा ते सुमतिर्भूत्वस्मे’
*<poem> ’अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्बान् ।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम ॥</poem>
हे अग्निदेव ! अस्मान् सम्पद्युक्ते मार्गे नय । त्वं सकलज्ञानयुतः महानुभावः अस्ति । अस्माकं शत्रुं पापं नाशय । पौनःपुन्येन भवन्तं नमामः ।
यास्काचार्यः अग्निशब्दस्य निर्वचनम् एवं वदन्ति – ’अग्रणीर्भवति’ (नि ७-१४-४) – सर्वार्थेषु अग्रनयनः ।
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्