"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७:
==भारतीयगणराज्यसेनाप्रवेशः==
[[File:The tree at whose platform Azad shot himself.jpg|thumb|इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्]]
आजादः षोडशे वयसि [[रामप्रसाद बिस्मिल|रामप्रसादबिस्मिल्लेन]] आयोजितां [[गणराज्योत्सवः|भारतीयगणराज्यसेनाम्]] आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वाकारीयवित्त्वकोशमेवसर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायकोऽभूत् ।
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायःलालालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।
 
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्