"भारतद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
भारतद्वारात् १५० मी. दूरे पूर्वदिशि एकः मण्डपः निर्मितः वर्तते । सः मण्डपः निरङ्कारि-सरोवरस्य पार्श्वे स्थिते बुरारी-मार्गनामके स्थले वर्तते । पुरा तस्मिन् मण्डपे जॉर्ज् 5 इत्यस्य ५० पादोन्नता मूर्तिः आसीत् । परन्तु [[भारत]]गणराज्यस्य स्वतन्त्रतानन्तरं १९६० तमे वर्षे जॉर्ज् इत्यस्य मूर्तिः मण्डपात् अपाकृता । महाबलिपुरे षष्ठे शताब्दे अनेकानां बृहन्मूर्तीनां निर्माणं जातम् आसीत् । तस्मात् प्रेरिताः आङ्ग्लाः जॉर्ज् इत्यस्य मूर्तेः निर्माणम् अकारयन् । तस्याः मूर्तेः निर्माणं सी. एस्. जैगर् नामकेन आङ्ग्लेन कृता आसीत् । आङ्ग्लशासने निर्मितासु बृहन्मूर्तिषु जॉर्ज् इत्यस्य मूर्तेः गणना भवति स्म ।
 
== भारतद्वारं, [[भारतस्य प्रवेशद्वारंभारतप्रवेशद्वारं]] च ==
 
भारतद्वारं (India Gate), [[भारतस्य प्रवेशद्वारम्भारतप्रवेशद्वारम्]] (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।
 
भारतद्वारं तु [[देहली]]-महानगरस्य राजपथमार्गे स्थितं किञ्चन स्मारकम् । १९३१ तमे वर्षे भारतद्वारस्य निर्माणं पूर्णम् अभवत् । एतत् स्मारकं प्रथमविश्वेयुद्धे हुतात्मभ्यः सैनिकेभ्यः निर्मितम् आङ्ग्लसर्वकारेण । भारतद्वारस्य परिकल्पना (design) एड्विन् लुटियन्स् इत्यनेन कृता आसीत् ।
 
[[भारतप्रवेशद्वारं]] [[महाराष्ट्रराज्य]]स्य [[मुम्बई]]-महानगरे स्थितं [[भारतगणराज्य]]स्य प्रवेशद्वारम् अस्ति । १९२४ तमे वर्षे एतस्य प्रवेशद्वारस्य निर्माणं पूर्णम् अभवत् । समुद्रमार्गेण ये आङ्ग्लाः [[भारतं]] प्रविष्टाः, ते तस्मात् मार्गात् एव प्रवेशं प्रापन् । ततः [[भारतस्वतन्त्रता]]याः काले अपि ते तेन मार्गेण [[भारतम्|भारतात्]] निर्गमनम् अकुर्वन् । तेन मार्गेण आङ्ग्लानां गमनागमनत्वात् तस्य नाम [[भारतस्य प्रवेशद्वारम्भारतप्रवेशद्वारम्]] इति । तस्य द्वारस्य निर्माणोद्देशः भिन्नः आसीत् । जॉर्ज् 5 इत्यस्य विवाहः मेरी इत्यनया सह अभवत् । तयोः विवाहस्य स्मारकत्वेन आङ्ग्लाः एतस्य द्वारस्य निर्माणम् अकारयन् ।
 
== सम्बद्धाः लेखाः ==
पङ्क्तिः ६३:
[[कारगिलविजयदिवसः]]
 
[[भारतप्रवेशद्वारम्]]
[[भारतस्य प्रवेशद्वारम्]]
 
[[प्रधानमन्त्री]]
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्