"भगवद्गीता" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५:
श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
:''गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।''
:''या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृतामुखपद्माद्विनिःसृता ॥''
 
:''सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।''
:''पार्थो वत्सः सुधीर्भोक्ता गीतामृतदुहे नमः ॥''
वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच ।उवाच— "नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव" । अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञानफलमेतदिति निश्चितं दर्शितं भवति । यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति । तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः । एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-
 
:''इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।''
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्