"जीन् ब्याप्टिस्ट् लामार्क्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३०:
 
एषः जीन् ब्याप्टिस्ट् लामार्क् मेडिटेरियन्–समुद्रस्य तीरे यदा सैनिकः आसीत् तदा सस्यविषये आसक्तः सञ्जातः । स्वयम् अध्ययनं कृत्वा एव फ्रान्स्–देशस्य सस्यानां विषये एव १७७८ तमे वर्षे किञ्चित् पुस्तकम् अपि अलिखत् । १७९३ तमे वर्षे [[प्यारिस्]]–नगरे विद्यमाने प्राकृतिक-इतिहास-सङ्ग्रहालये (Natural History Muzium) अकशेरुक– प्राणिविज्ञानस्य प्राध्यापकत्वेन नियुक्तः । तत्र उद्योगावसरे सः जीन् ब्याप्टिस्ट् लामार्क् [[ऊर्णनाभः|ऊर्णनाभ]]–[[वृश्चिकः|वृश्चिक]]–सदृशान् अष्टपदीन् षड्–पदिभ्यः [[कीटः|कीटेभ्यः]] पृथक् वर्गीकृतवान् । तथैव कण्टकचर्मिणां, कठिनचर्मिणां च प्राणिनां वर्गीकरणम् अपि अकरोत् । तेन जीन् ब्याप्टिस्ट् लामार्केन लिखितं "अकशेरुकाणां प्राकृतिक-इतिहासः” (Natural History of Invertibrets) इति पुस्तकम् इदानीम् अपि अकशेरुकाणां विषये अध्ययनस्य आधारत्वेन परिगण्यते ।
 
अनेन जीन् ब्याप्टिस्ट् लामार्केन १८०९ वर्षे प्रकटिते '''“प्राणिविज्ञानदर्शनम्”''' इति पुस्तके विकासवादः विवृतः अस्ति । '''“बाह्यस्य परिसरस्य कारणतः कस्मिंश्चित् प्राणिनि यः परिणामः जायते सः अग्रिमे वंशे (जनाङ्गे) (Generation) अपि अनुवर्तते”''' इति सः तत्र प्रतिपादितवान् अस्ति । उदाहरणार्थं दीर्घकण्ठी (Giraffe) उन्नते स्थाने विद्यमानानि पर्णानि खादितुं पुनः पुनः [[कण्ठः|कण्ठं]] दीर्घीकरोति स्म । तस्मात् कारणात् अग्रिमे वंशे तेषां प्राणिनां कण्ठः दीर्घः एव जातः । उपयोगानुसारम् अवयवः वर्धते अथवा नश्यति इति सिद्धान्तं सः प्रत्यपादयत् । अस्य सिद्धान्तः बहुभिः परीशील्य तिरस्कृतः । अतः सः जीन् ब्याप्टिस्ट् लामार्क् जीवनस्य अन्तिमे काले अन्धः, निर्धनः, जुगुप्सितः च सञ्जातः । १८२९ तमे वर्षे डिसेम्बर्–मासस्य १८ दिनाङ्के इहलोकम् अत्यजत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.textbookleague.org/54marck.htm The Imaginary Lamarck: A Look at Bogus "History" in Schoolbooks] by [[Michael Ghiselin]]
* {{gutenberg author|id=Jean_Lamarck_(1744–1829)}}
* [https://notes.utk.edu/Bio/greenberg.nsf/0/b360905554fdb7d985256ec5006a7755?OpenDocument Epigenetics: Genome, Meet Your Environment]
* [http://www.lamarck.cnrs.fr/auditeurs/presentation.php?lang=en Science Revolution Followers of Lamarck]
* [http://www.biodiversitylibrary.org/bibliography/824 Encyclopédie Méthodique: Botanique] At: [http://www.biodiversitylibrary.org/ Biodiversity Heritage Library]
* [http://www.lamarck.cnrs.fr/index.php?lang=en Jean-Baptiste Lamarck: works and heritage], online materials about Lamarck (23,000 files of Lamarck's herbarium, 11,000 manuscripts, books, etc.) edited online by Pietro Corsi (Oxford University) and realised by [[CRHST]]-[[CNRS]] in France.
* [http://www.ucmp.berkeley.edu/history/lamarck.html Biography of Lamarck] at University of California Museum of Paleontology
* {{Cite EB1911|wstitle=Lamarck, Jean Baptiste Pierre Antoine de Monet, Chevalier de}}
* Lamarck's writings are available in facsimile (PDF) and in Word format (in French) at [http://www.lamarck.cnrs.fr/?lang=en www.lamarck.cnrs.fr]. The search engine allows full text search.
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जीन्_ब्याप्टिस्ट्_लामार्क्" इत्यस्माद् प्रतिप्राप्तम्