"नीलकण्ठदीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एषःनीलकण्ठदीक्षितः (Nilakantadixit) ‘नीलकण्ठविजयचम्पूः’ इतिइत्येतं ग्रन्थं रचितवान् अस्ति । एषः प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवि इति । नीलकण्ठदीक्षितः स्वग्रन्थे वदति - ‘अहम् एतं ग्रन्थं ४७३८ तमे कलिवर्षे (क्रि.श. १६३६) रचितवान्’ इति । अतः एतत् तु स्पष्टं यत् एषः सप्तदशे शतके आसीत् इति ।
==नीलकण्ठदीक्षितः==(Nilakantadixit)
एषः ‘नीलकण्ठविजयचम्पूः’ इति ग्रन्थं रचितवान् अस्ति । एषः प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवि इति । नीलकण्ठदीक्षितः स्वग्रन्थे वदति - ‘अहम् एतं ग्रन्थं ४७३८ तमे कलिवर्षे (क्रि.श. १६३६) रचितवान्’ इति । अतः एतत् तु स्पष्टं यत् एषः सप्तदशे शतके आसीत् इति ।
नीलकण्ठदीक्षितः मधुरै-पाण्ड्यराजस्य तिरुमलनायकस्य आस्थानपण्डितः आसीत् । एषः महाकाव्यद्वयम्, एकं नाटकं, शतकद्वयं, दर्शनग्रन्थान् च रचितवान् अस्ति । एतस्य ३२ ग्रन्थाः उपलभ्यन्ते ।
समुद्रमथनकथा नीलकण्ठविजये वर्णिता अस्ति । एतस्मिन् ग्रन्थे ५ आश्वासाः सन्ति । काव्योचितप्रतिभा एतस्य कवेः । विडम्बनात्मकचित्रणे एषः निपुणः । मनोहरवर्णनानि एतस्य काव्ये बहूनि । अतः संस्कृतसाहित्ये एतस्य ग्रन्थस्य विशिष्टं स्थानम् अस्ति ।
"https://sa.wikipedia.org/wiki/नीलकण्ठदीक्षितः" इत्यस्माद् प्रतिप्राप्तम्