"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
 
१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति ।
प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, [[सिङ्गापुरम्|सिङ्गपूर्]], हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् ।
१९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् ।
१९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि, सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् ।
१९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारत्म्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् ।
 
==भावातीतध्यानान्दोलनस्य प्रगतिः==
१९६८ तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । १९७० तमे वर्षे मासात्मकं वर्गं केलिफोर्नियायाम् अकरोत् यस्मिन् १५०० जनाः भागम् अवहन् । १९७२ तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः १००० युवानः भागम् अवहन् । १९७३ तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । १९७४ तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । १९७५ तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । १९ शतकस्य सप्तमशतके ३७० भावातीतध्यानकेन्द्राणि ३७० शिक्षकाः च आसन् ।
"https://sa.wikipedia.org/wiki/महर्षि_महेश_योगी" इत्यस्माद् प्रतिप्राप्तम्