"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
 
१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति ।
प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, [[सिङ्गापुरम्|सिङ्गपूर्]], [[हांग् कांग् नगरम्|हाङ्ग्काङ्ग्]], हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् ।
१९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् ।
१९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि, सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् ।
"https://sa.wikipedia.org/wiki/महर्षि_महेश_योगी" इत्यस्माद् प्रतिप्राप्तम्