"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः

प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः [[श्यामदेशः|थैलेण्ड्]], मलय, [[सिङ्गापुरम्|सिङ्गपूर्]], [[हांग् कांग् नगरम्|हाङ्ग्काङ्ग्]], हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, [[लास एंजलस|लास्-एञ्जलीस्]], [[बास्टन्|बोस्टन्]], [[न्यू यार्क्|न्यूयार्क्]], [[लन्डन्|लण्डन्देशे]] च अतीन्द्रियध्यानपद्धतिम् अबोधयत् ।
१९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् ।
१९६० तमे वर्षे महर्षी [[फ्रान्सदेशः|फ्रान्स्]], [[स्विट्झर्ल्याण्ड्|स्विट्सर्लेण्ड्]], [[इङ्ग्लेण्डदेशः|इङ्ग्लेण्ड्]], स्काट्लेण्ड्, [[नार्वे|नार्वे]], [[स्वीडन|स्वीडन्]], [[जर्मनी|जर्मनी]], दि [[नेदर्लेण्ड्देशः|नेदर्लेण्ड्स्]], [[इटली|इटालि]],[[सिङ्गापुरम्|सिङ्गपुर्]], [[आस्ट्रेलिया|आस्ट्रेलिया]], [[न्यूजिलैण्ड्|न्यूझिलेण्ड्]], [[आफ्रिकाखण्डः|आफ्रिका]] इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् ।
१९६१ तमे वर्षे महर्षी आस्ट्रेलिया, [[स्वीडन|स्वीडन्]], [[फ्रान्सदेशः|फ्रान्स्]], [[इटली|इटालि]], [[यवनदेशः|ग्रीस्]], भारत्म्[[भारतम्]], [[केन्या]], इङ्ग्लेण्ड्, [[अमेरिका]], [[केनडा]] इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते [[हृषीकेशः|हृषिकेशे]] अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् ।
 
==भावातीतध्यानान्दोलनस्य प्रगतिः==
३,११३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/281823" इत्यस्माद् प्रतिप्राप्तम्