"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९:
 
==भावातीतध्यानान्दोलनस्य प्रगतिः==
१९६८ तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । १९७० तमे वर्षे मासात्मकं वर्गं [[कालिफ़ोर्निया|केलिफोर्नियायाम्]] अकरोत् यस्मिन् १५०० जनाः भागम् अवहन् । १९७२ तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः १००० युवानः भागम् अवहन् । १९७३ तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । १९७४ तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । १९७५ तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । १९ शतकस्य सप्तमशतके ३७० भावातीतध्यानकेन्द्राणि ३७० शिक्षकाः च आसन् ।
[[File:Maharishi 5 jan 2008.JPG|right|thumb|250px|महर्षि महेश योगी, २००५ जनवरी १२]]
 
==मरणम्==
२००८ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति । मरणात् एकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य ५ दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनानद्योः कृतम् ।
"https://sa.wikipedia.org/wiki/महर्षि_महेश_योगी" इत्यस्माद् प्रतिप्राप्तम्