"गुप्तसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
गुप्त-साम्राज्यम् इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[गुप्त-साम्राज्यम्]]
{{वम्शः|
| नाम =गुप्तसाम्राज्यम्
| मानचित्रम् = [[चित्रम्:Guptaempire.gif|thumb|250 px|गुप्तसाम्राज्यम् क्रि.पू.४००]]
| कालः = क्रि.पू. २४०-५५०
| पूर्ववंशः =कन्ववंशः
| आगमिवंशः=पालवंशः
| स्थापकः =श्रीगुप्तः
| शासनप्रकारः =राज्यम्
| प्रधानपुरी =पाटलिपुत्रः
| मुख्यभाषा =संस्कृतम्
| मताः =वैदिकधर्मः, बौद्धधर्मः च
}}
[[चित्रम्:India-Qutb-Iron.jpg|thumb|left|150 px|गुप्तसाम्राज्यकालस्य अयस्तम्भः]]
क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् '''गुप्तसाम्राज्यम्''' [[भारतम्|भारते]] । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । [[भारतस्य इतिहासः|भारतीये इतिहासे]] गुप्तकालः '''"भारतस्य सुवर्णकालः"''' इत्येव उल्लिखितः अस्ति । तदवसरे भारते [[विज्ञानम्|विज्ञानं]] राजनैतिकव्यवहारः च प्रवृद्धौ । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां [[श्वेतहूणाः|हूणानाम्]] अक्रमणस्य कारणतः गुप्तसाम्राज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन [[मगधदेश:|मगधस्य]] शासनं करोति स्म ।
== गुप्तवंशस्योद्भवनम् ==
एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवंशिनः वैश्याः इति मन्यते यथा स्मृतिषु 'गुप्त'इति शब्दः वैश्याणां नामन्तरे एव उपयुक्तः इति कथ्यते।
 
== श्रीगुप्तघटोत्कचौ ==
[[श्रीगुप्तः]](२४०-२८०) [[घटोत्कचः]](२८०-३१९) च मगधायाः राजानौ आस्ताम्।
 
== चन्द्र्गुप्तःI (३१९-३३५) ==
[[चन्द्रगुप्त १|चन्द्रगुप्तःI]] एव प्रथमः गुप्तमहाराजः आसीत्। सः कुमारदेवी नाम लीच्चवीराजपुत्रीं परिणीय तेषाम् उपकारेण प्रयागं साकेथपुरीं च अजयत्। सः राजाधिराजः इति अभिधानं प्राप्तवान्।
 
== समुद्रगुप्तः (३३५-३८०) ==
[[चित्रम्:SamudraguptaCoin.jpg|100px|left|समुद्रगुप्तःII]]
[[समुद्रगुप्त|समुद्रगुप्तः]] सः महान् सेनापतिः आसीत्। सः पाञ्चलान् मालवान् यौधेयान् अभिरान् च अजयत्। तस्य साम्राज्यस्य सीमाः उत्तरदिशि हिमालयः दक्षिणे नर्मदा पुर्वस्यां दिशि लौहित्य पश्चिम्याम् च यमुना अभवन्। सः अश्वमेधयज्ञम् अकरोत्। तस्य सभायां हरिशेना वसुबन्धुः अर्यसङ्गादयः पण्डिताः अवसन्। सः विष्णुभक्तः आसीत्।
<br />
<br />
<br />
== रामगुप्तः ==
[[रामगुप्तः]] समुद्रगुप्तस्य पुत्रः आसीत्। सः देवीचन्द्रगुप्तनाट्ये वर्णितः। तस्य केचन सिकाः अपि सन्ति।
 
== चन्द्रगुप्तःII-विक्रमादित्यः(३८०-४१३) ==
[[चित्रम्:ChandraguptaIIOnHorse.jpg|100px|left|चन्द्रगुप्तःII]]
[[चन्द्रगुप्तविक्रमादित्य|चन्द्रगुप्तविक्रमादित्यः]] दत्तदेव्याः पुत्रः आसीत्। सः कुन्तलदेशस्य (द्रुवस्वामिनी) नागदेशस्य (कुभेरनागा) च राजकुमार्यौ परिणीतवान्। तस्य दुहिता प्रभावती गुप्ता वाकाटक राजानम् रुद्रसेनम् विवाहम् अकरोत्।
 
सः रुद्रसिंहविराजितान् शकान् विजित्य सौराष्ट्रम् अन्तर्गतवान्। सः वङ्गान् च अजयत्। ततः सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः परसिकान् कम्बोजान् हूणान् पुर्वस्यां दिशि च किराटान् किन्नरान् च अभिभवति स्म। सः देवगरपुरे दशावतारमन्दिरम् अस्थापयत्। तस्य शासने चित्रकला शिल्पकला साहित्यम् च् अवर्धन्त। तस्य सभायां नवरत्नानि अवसन् तेषु कालिदासः एकः
 
== कुमारगुप्तःI (४२३-४५५) ==
[[कुमारगुप्तःI]] विक्रमादित्यस्य द्वितीयः पुत्रः आसीत्। सः महेन्द्रादित्यः इति संज्ञाम् उरीकृतवान्।
 
== स्कन्दगुप्तः(४५५-४६७) ==
[[स्कन्दगुप्तः]] गुप्तवंशस्य अन्तिमः महान् राजा आसीत्। सः विक्रमादित्यः इति अभिधानम् उरीकृतवान्। तेन पश्चिमोत्तरदिशायाः पराक्रमन्तः हूणाः जिताः।
 
== साम्राज्यस्य अन्तः ==
ओप्रटोरमानमिहिरकुलैः नेतारः हूणाः निर्बलान् गुप्तराजान् अजयन्।
==== अन्तिमगुप्तराजाः ====
* पुरुगुप्तः (४६७-४७३)
* कुमारगुप्तःII(४७३-४७६)
* [[बुधगुप्तः]] (४७६-४९५)
* [[नरसिंहगुप्तः]]
* कुमारगुप्तःIII
* [[विष्णुगुप्तः]]
* वैण्यगुप्तः
* भानुगुप्तः
 
== सेना ==
गुप्तराज्ञां सेना सम्यक्प्रणिहिता वीर्यवती चासीत्। सेनायां बहवः धन्विनः पादसैनिकाः च अवर्तन्त। धनाः अयसा अथवा वेणुना निर्मिताः आसन्। शूलकवचखङ्गयुक्ताः सैनिकाः ताम् अपालयन्। ते सकवचान् गजान् उपायुजन्। तेषां सेनायां बहवः रथिनः आसन्। ते नगरनाशकाणि शस्त्राणि बिन्दिपालन् च उपायुजन्। तेषाम् नौसेना अपि आसीत्।
== राजनीतिः ==
राष्ट्रं षड्विंशति प्रदेशरूपेण विभक्तम् आसीत्। एवं प्रदेशाः विषयरूपेण विभक्ताः आसन्। विषयपतिः अधिकरणसङ्गसहितः विषयं समधितिष्ठति स्म। सङ्गे नगरश्रेष्ठी सार्थवाहः प्रथमकुलिका प्रथमकायस्था चाभवन्। विषयस्य खण्डः वीथी इति कथ्यते।
 
== दायम् ==
[[चित्रम्:Indischer Maler des 6. Jahrhunderts 001.jpg|thumb|left|150 px|अजन्तागुहबौद्धचित्रम्]]
* गणितविज्ञानादि क्षेत्रेषु च अवर्धन्त। अस्मिन् काले एव [[आर्यभटः]] [[वराहमिहिर:]] [[ब्रह्मगुप्त:]] इत्यादयः गणितज्ञाः अवसन्।
* बहूनि काव्यानि नाटकानि च रचिताः। [[कालिदासः]] अपि अस्मिन् काले एव अवसत्।
* [[नालन्दा|नालन्दादयः]] विश्वविद्यालयाः स्थापितानि।
* अस्मिन् काले राजानः अनेके देवालयान् स्तूपान् च अमिन्वन्। तेषु [[गुप्तलिपिः|गुप्तलिप्याम्]] अनेकानि अभिलेखनानि कृतानि।
 
== बाह्यसम्पर्कतन्तुः ==
* [http://www.flonnet.com/fl2422/stories/20071116504306400.htm Frontline Article on Gupta Period Art]
* [http://regentsprep.org/Regents/global/themes/goldenages/gupta.cfm Regents Prep:Global History:Golden Ages:Gupta Empire]
 
[[वर्गः:साम्राज्यानि|गुप्त-साम्राज्यम्]]
"https://sa.wikipedia.org/wiki/गुप्तसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्