"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
[[चित्रम्:Chandrashekharji.jpg|thumb|left|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]
==जननम् बाल्यम् च==
'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । १९५६ ख्रीस्‍ताब्‍दस्‍य अकालकारणात् स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य मध्‍यप्रदेशस्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं भावरा ग्रामे न्‍यवसत् । अत्रैव बालचन्‍द्रशेखरस्‍य बाल्‍यकालः अतीतः । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । तदा वाराणसी क्रान्तिकारिणां केन्‍द्रमासीत् । चन्‍द्रशेखरस्‍य मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः '''हिन्‍दुस्‍तान प्रजातन्‍त्र संघ''' इति नाम्‍ना निर्दिश्यते स्‍म
 
==असहकारान्दोलनम्==
तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया [[असहकारान्दोलनम्|असहकारान्दोलनं]] प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलोकयन् बालः चन्द्रशेखरः आरक्षकाणामुपरि पाषाणं प्राक्षिपत् । आरक्षकाः तमनुधावन्तः यत्नेन गृहीत्वा न्यायालयम् अनयन् । तत्र एवं प्रश्नोत्तरमभवत् ।
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्