"सि डि देशमुख" इत्यस्य संस्करणे भेदः

चिन्तामण् द्वारकानाथ देशमुख् इत्येतत्प्रति अनुप्रेषितम्
(लघु) Shubha इति प्रयोक्त्रा चिन्तामण् द्वारकानाथ देशमुख् इत्येतत् सि डि देशमुख इत्येतत् प्रति चालि...
पङ्क्तिः १:
{{Infobox officeholder
#पुनर्निदेशन [[चिन्तामण् द्वारकानाथ देशमुख्]]
|honorific-prefix = सर्
#पुनर्निदेशन|name = [[चिन्तामण् द्वारकानाथ देशमुख्]]
|honorific-suffix = [[Order of the Indian Empire|CIE]], [[Indian Civil Service|ICS]]
|image =
|caption = १९५९तने वर्षे चिन्तामण् द्वारकानाथ देशमुख्
|office = अर्थसचिवः
|primeminister = [[जवाहरलाल नेह्रू]]
|predecessor = [[जान् मथै]]
|successor = [[टि टि कृष्णमाचारि]]
|term = मे २९, १९५०<ref>http://photodivision.gov.in/waterMarkdetails.asp?id=14554.jpg</ref>-१९५७
|order1 = तृतीयः
|office1 = 'भारतीयरिसर्वबेङ्क' कार्यालयेमुख्याधिकारिः
|predecessor1 = जेम्स् ब्रैड् टेलर्
|successor1 = बेनेगल् राम राव्
|term1 = १९४३-४९
|birth_place = नाटे, मह्दनगरम्, [[रायगडमण्डलम्]], [[महाराष्ट्रराज्यम्]]
|birth_date = {{Birth date|1896|01|14|df=y}}
|death_date = {{Death date and age|df=y|1982|10|02|1896|01|14}}
|alma_mater = [[केम्ब्रिड्ज् विश्वविद्यालयः]]
|nationality = भारतीयः
|religion = [[हिन्दू]]
}}
 
चिन्तामण् द्वारकानाथ देशमुखवर्यः( Chintaman D Deshmukh) [[भारतम्|भारतस्य]] प्रमुखः अर्थशास्त्रज्ञः आसीत् । सः सी. डि. देशमुख् इत्येव प्रसिद्धः आसीत् । अयं 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि आसीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्र्यानन्तरं सः केन्द्रसर्वकारस्य सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
 
==प्रारम्भिकजीवनम्==
१८९६ तमे वर्षे जनवरीमासस्य १४ दिनाङ्के [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[रायगढमण्डलम्|रायगढदुर्गस्य]] समीपस्थे 'नाटा'नामके ग्रामे देशमुखवर्यः अजायत । एतस्य पिता द्वारकानाथगणेशः सुप्रसिद्धः न्यायवादी आसीत् । माता भागीरथीबाई । एतेषां पूर्णकुटुम्बः एव समाजसेवाकार्ये निरतः आसीत् । बाल्यादारभ्य देशमुखवर्यः प्रतिभान्वितः उत्तमविद्यार्थी च आसीत् । सः मुम्बैविश्वविद्यालयस्य दशमकक्षापरीक्षायां राष्ट्रियस्तरे प्रथमस्थानं प्राप्तवान् । १९१७तमे वर्षे [[ब्रिटेन्]]-देशस्य 'केम्ब्रिज् जीसस् विद्यालयतः' सस्यशास्त्रे 'फ़्रान्क् स्मार्ट्' पदकेन सह विज्ञानपदवीं प्राप्तवान् । १९१८तमे वर्षे [[लन्डन्]]-नगरे 'ई सि एस्' परीक्षायां प्रथमस्थानं प्राप्तवान् ।
 
==वृत्तिजीवनम्==
*१९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरं कार्यदर्शिरूपेण कार्यम् आरब्धवान् । १९४३- १९५०तमवर्षपर्यन्तं सः वित्तकोशस्य मुख्याधिकारिपदं निरूढवान् ।
 
*१९४४तमे वर्षे 'ब्रेटन-उड्स्' सम्मेलने भारतस्य प्रतिनिधिरूपेण भागं स्वीकृतवान् । सम्मेलनस्य परिणामतः अन्ताराष्ट्रिय-आर्थिकनिधिः (IMF) (इन्टर्नाशनल् बेङ्क् फ़ार् रिकन्स्ट्रक्षन् आण्ड् डेवेलप्मेण्ट्)(IBRD) नामकं संस्थाद्वयं स्थापितम् । तदनन्तरं देशमुखवर्यः एकवर्षपर्यन्तम् एतयोः संस्थयोः सदस्यः आसीत् । १९५१तमे वर्षे प्यारिस्-नगरे एतयोः संयुक्ताश्रयेण वार्षिकसम्मेलनं सञ्जातम् । तत्र देशमुखवर्यः अध्यक्षः आसीत् ।
 
*आङ्ग्लसर्वकारतः भारतदेशः यदा विभक्तः तदा देशमुखवर्यः विभक्तराष्ट्रद्वयस्य वित्तकोशीयव्यवहारान् आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शनेन रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
*१९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनाम् अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्वा सः विश्वविद्यालयानाम् अनुदानायोगस्य पूर्णावधि-अध्यक्षरूपेण नियुक्तः । तदनन्तरं [[देहलीविश्वविद्यालयः|देहलीविश्वविद्यालयस्य]] कुलपतिः अभवत् ।
 
==वैयक्तिकजीवनम्==
देशमुखवर्यः एकाम् आङ्ग्लकन्याम् ऊढवान् । एतयोः एका पुत्री अपि जाता । किन्तु भारतस्य स्वातन्त्र्यानन्तरं सा इङ्ग्लेण्ड्देशं प्रति गतवती । अनन्तरं देशमुखवर्यः दुर्गाबाई इत्याख्यां कन्यां परिणीतवान् । सा काङ्ग्रेस्पक्षस्य सदस्या स्वातन्त्रयोधा च ।
 
१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवङ्गतः ।
 
==पुरस्काराः==
 
*१९३७तमे संवत्सरे CIE (Companion of the Order of the Indian Empire)-संस्थायां देशमुखवर्यः नियुक्तः ।
* १९४४तमे संवत्सरे, आङ्ग्लसर्वकारतः 'नैट्-हुड्' (Knighthood) उपाधिं प्राप्तवान् ।
*१९५७तमे संवत्सरे,कोल्कताविश्वविद्यालयपरतया विज्ञानविषये गौरवडाक्टरेट्-पदवीं प्राप्तवान् । <ref>[http://www.caluniv.ac.in/About%20the%20university/university_frame.htm Honoris Causa]</ref>
*१९५९तमे संवत्सरे, [[रमोन् मैग्सेसे-पुरस्कारः|रमोन् मैग्सेसे-पुरस्कारं ]] प्राप्तवान् । <ref>{{cite web
|url = http://www.rmaf.org.ph/Awardees/name.htm
|title = The Ramon Magsaysay Awardees by Name
|accessdate = 2006-12-08
|publisher = The Ramon Magsaysay Foundation}}</ref>)
*१९७५तमे संवत्सरे, भारतीयसर्वकारतः पद्मविभूषणप्रशस्तिं प्राप्तवान् ।
==टिप्पणी==
{{reflist}}
==बाह्यसम्पर्कतन्तुः==
* [http://www.rbi.org.in/content/Annual_CDMemorial.aspx चिन्तामणी द्वारकानाथ देशमुखः]
* [http://indian-coins.com/republicindianotes/2-10000-rupees/c-d-deshmukh द्वारकानाथ देशमुखः]
 
[[वर्गः:भारतीय-अर्थशास्त्रज्ञः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्