"नामदेव" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (Shubha इति प्रयोक्त्रा साधुः नामदेवः इत्येतत् नामदेव इत्येतत् प्रति चालितम्)
{{सिखमतम्}}
 
सधुः नामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।
 
== आत्मकथा ==
'नामदेववाची'नामके ग्रन्थे नामदेवस्य २५०० कीर्तनानि सङ्गृहीतानि सन्ति । अस्मिन् 'तीर्थावली' नामकं पद्यं सन्तध्यानेश्वरेण सह स्वस्य प्रवासानुभवं कथयति । मराठीसाहित्ये इदमेव प्रथमम् आत्मचरितम् अस्ति । 'आदि' 'समाधि' 'तीर्थावली' इत्येतेषां द्वारा सः ध्यानेश्वरस्य जीवनगाथां कथयति । अतः सः मराठीसाहित्यस्य प्रथमः जीवनचरितलेखकः इत्यपि वक्तुं शक्नुमः । ध्यानेश्वरस्य मरणस्य अनन्तरं ५० वर्षाणि यावत् नामदेवः भगवद्धर्मस्य प्रचारम् अकरोत् । सन्तः तुकारामः अपि अस्मात् नितरां प्रभावितः जातः इति श्रूयते । नामदेवः अशीतितमे वयसि १३५० तमे वर्षे पण्डरापुरे भगवतः पादारविन्दौ मरणं प्राप्तवान् । सः तस्य मन्दिरस्य सोपानशिला भवितुम् इष्टवान् यस्मात् असङ्ख्यानां सत्पुरुषाणां पादस्पर्षेण अनुगृहीतः स्याम् इति ।
 
==भक्तेः परीक्षा==
नामदेवस्य भूतदयां परीक्षितुकामः पाण्डुरङ्गः कदाचित् शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार । परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः । बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् । झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् । अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् । शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः । परन्तु अपूपं न भक्षितवान् ।
 
तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव । अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् । अत्र यदि घृतं योजितं स्यात् तर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् । शुनकः समीपम् अगच्छत तस्य मुखात् अपूपम् अपसार्य खण्डशः कृत्वा घृतम् आपूर्य दत्तवान् । शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् । तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गम् अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उपहासं कृतवन्तः । कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ । परन्तु नामदेवः भगवतः पाण्डुरङ्गस्य दर्शनमासीत्, सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् । जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, अपि तु पाण्डुरङ्गः एव। नामदेवः निश्चयेन पाण्डुरङ्गभक्तः । अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् । एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति ।
 
== बाह्यनुबन्धाः ==
 
[[वर्गः:मध्ययुगीयधार्मिकव्यक्तयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:हिन्दुधर्ममार्गदर्शकाः]]
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/281963" इत्यस्माद् प्रतिप्राप्तम्