"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः १:
{{Infobox holiday
{{Dead end|date=जनुवरि २०१४}}
|festival_name = dussehra
|type = hindu
|longtype = Hindu festival
|image = Durga Puja celebration.jpg
|caption =
|official_name =
|nickname =
|observed by = [[Hinduism]]
|begins = [[Ashvin]] Shukla [[Prathama (day)|Prathama]]
|ends = Ashvin Shukla [[Navami]]
|date = Usually September–November. The date changes as per [[lunar calendar]].
|date2012 = 23 – 31 March
|date2012 = 16 – 24 October<ref>{{cite web | url=http://www.navratrifestival.net/navratri-dates/ | title=Navratri Dates | accessdate=12 February 2012}}</ref>
|date2013 = 5 – 13 October
| date2014 = 25 September, Thursday &ndash; 3 October, Friday
| date2015 = 13 October, Tuesday &ndash;22 October, Thursday
|frequency=annual
|celebrations = 9–10 days
|observances =
|relatedto =
}}
 
[[File:Sharada altar.jpg|thumb]]
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु '''नवरात्रोत्सवः''' अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति 'मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य 'सांस्कृतिकराजधानी’ इति प्रथां लभते । प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत्‌ अभिवृद्धिः कर्तुं साध्या तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम्‌ । तत्र मैसूरुराजाः कारणम्‌ । दसरावसरे इदं नगरम् अन्यादृशमिव शोभते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्‌-वर्यै: निरुह्यते ।बहिः कर्णाटक -सर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति । । सम्प्रति दसरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते ! जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम्‌ ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्‌ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दसरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । मैसूरुराजशासनकाले यानि भव्यानि भवनानि शिल्पकलावैभवोपेतानि निर्मितानि तानि संरक्षणमर्हन्ति । । एतेषु कृष्णराजवैद्यालयः, आयुर्वेद वैद्यालयः, युवराजकालेज्‌, महाराजसंस्कृतमहापाठशाला इत्यादयः गणनां अर्हन्ति । मैसूरुनगरस्य वैशिष्ट्येषु सुधर्मासंस्कृतदिनपत्रिका अपि उल्लेखनीया । विश्वेस्मिन्‌ इयमेषा अनुपमापत्रिका ।
नवरात्रमहोत्सवः दशदिनं यावत् प्रचलति । उत्सवोऽयं 'दसरा" इति 'डशहरा’ इति च प्रादेशिकभाषासु उच्य्ते । भारतस्य व्सर्वेषु प्रदेशेषु एतम् उत्सवम् आचरन्ति । आश्वयुजमासस्य प्रथमदिनादारभ्य दशमीपर्यन्तम् अयम् उत्सवः भवति । तेषु दिनेषु देवीपूजायाः प्राशस्त्यम् अस्ति ।
Line २६ ⟶ ४६:
 
नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://hinduism.about.com/od/festivalsholidays/a/navaratri.htm नवरात्रोत्सवः]
 
[[वर्गः:हिन्दु-उत्सवाः|नवरात्रिः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्