"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 20 interwiki links, now provided by Wikidata on d:q917680 (translate me)
No edit summary
पङ्क्तिः १:
उपक्रमः -
" अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" । इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
" शिक्षा कल्पो व्याकरणं निरुक्तं छन्द्सां चयः ।
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥ इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि स्न्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बौधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते । एतेन तेषां पुरातनत्वं सिदध्यति ॥
अङ्गमित्यस्य पदस्य व्युत्पत्तिः "अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरुहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव-" षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः । अतः एकैकं परिशीलयामः ॥
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्