"कल्पः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
ब्राह्मणकाले यागस्य तावान् प्रचारो जातो यत्तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानामावश्यकताऽनुभूयते स्म, तामेवावश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । कल्पसूत्राणि द्विविधानि श्रौतसूत्राणि स्मार्तसूत्राणि च । श्रुत्युक्तयागविधिप्रकाशकानि श्रौतसूत्राणि । स्मार्त्तसूत्राण्यपि द्विधा- गृह्य् सूत्राणि धर्मसूत्राणि च ।
 
श्रौतसूत्रेषु अग्नित्रयाधानम्, अग्निहोत्रम्, दर्शपूर्णमासौ, पशुयागः, नानाविधाः सोमयागाश्चेति विषयाः समुपपादिताः । गृह्यसूत्रेषु तेषामनुष्ठानाचारयागानां वर्णनं विद्यते येषां सम्पादनं त्रैवर्णिकैरवश्यं कर्त्तव्यम् । षोडाशसंस्काराणां विशिष्टं वर्णनमपि गृह्यसूत्रेषु कृतं बोध्यम् । धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञां च कर्त्तव्यचयाः चत्वारो वर्णाः, चत्वार आश्रमाः, तेषां धर्माः पूर्णतया निरुपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त
शुल्बसूत्रमपि कल्पसूत्रमेव, तत् श्रौतसूत्रान्तर्गतम् । शुल्बं मापक्रिया । इदं सूत्रमेव भारतीयज्यामितिशास्त्रस्य प्रवर्त्तकम् । पाश्चात्त्यैः ‘पिथागोरस्’ –प्रभृतिभिरिदं ज्यामितिशास्त्रं प्रणीतमिति ये कल्पयन्ति , ते शुल्बसूत्रं दृष्ट्वा दृढीकुर्वन्तु यदिद्ं ज्यामितिशास्त्रं भारतीयैः पाश्चात्त्यज्यामितिशास्त्रोत्पत्तेर्बहुदिवसपूर्वमेव प्रकटीकृतमिति । कल्पसूत्राणि तत्तद्वेदसम्बन्धनिबन्धनभेदयुतानि । तत्र –
"https://sa.wikipedia.org/wiki/कल्पः" इत्यस्माद् प्रतिप्राप्तम्