"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
कल्पसूत्राणि सन्ति चतुर्विधानि । श्रौतसूत्रं, गृह्यसूत्रं, धर्मसूत्रं, शुल्बसूत्रञ्चेति । श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौताग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते । गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्काराणां विस्तृतं विवरणं प्रस्तुतं विद्यते । धर्मसूत्रे चतुर्णां वर्णानाम् आश्रमाणां च कर्तव्यानि निर्दिष्टानि सन्ति । चतुर्थं शुल्बसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति ।
 
धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयः महत्त्वशाली । ऋग्वेदस्य आश्वलायनं शाङ्खायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । गृह्यसूत्रे च तदीये आश्वलायनं शाङ्खायनं च स्तः । शुक्लयजुर्वेदे श्रौतसूत्रम् एकमेव, तदस्ति कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि बौधायनबोधायन-आपस्तम्ब-हिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बौधायनगृह्यसूत्रमपिबोधायनगृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अर्णयं कल्पसूत्रं प्राचीनतमम् । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशाखीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं, किञ्च तदीयं गृह्यसूत्रं कौशीसंज्ञकं वेद्यम् ।
 
धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बौधायनोपिबोधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥
 
==ज्योतिषम्==
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्