"जडत्वम् (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

'''जडत्वम्''' ('''Inertia''') भौतिकवस्तुनः एका स्थितिः । ==... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १८:
अस्यार्थे यत् स्थितं वस्तु स्थानमेव अपेक्षते । यदि चेद् मोटर्यने आसीनः पुरुषः वेगेन गमनं प्रारभते तर्हि पुरुषस्य शिरः पश्चभागे विनर्मात । कारणञ्चास्य यद् तस्य शिरसोऽघोभागः यानेन सहैव गतिमान् भवति किन्तु ऊर्ध्वभागः स्थितिदशां अपेक्षते अतः स पश्च भागे एव तिष्टति । यदि च्गेद् गवाक्षशीशके मुशुण्डिकागुलिकायाः प्रहारः क्रियते तर्हि तस्मिन् तत्कालमेव गोलाकारं छिद्रं संजायते ।किन्तु मन्दाघातेन शीशकं चिटकायते । कारण्ञ्चास्य यद् यतेअ गुलिकाप्रहारः भवति तत्रस्थे शीशके तीव्रा गतिः प्रादुर्भवति किन्तु अविश्टं शीशकं झडत्वात् स्थैर्यमेव भजति । ढुलिका निस्सारणार्थं यदा काष्ठेन कोटनामकं परिधानं ताड्यते तदा काष्ठेन अकस्मात् परिधाने गतिः उत्पाद्यते किन्तु जडत्वात् रजः स्थैर्यं भजति अतः परिधानात् रजकणाः पृथग् भवन्ति ।
गत्याः जडत्वं –यदा गतिशीलं वाश्ष्पयानम् अवरुद्याते तर्हि यात्रीणाम् शिरांसि अग्रे विनमन्ति । यदि चेद् वेगेन गच्छन्त्याः द्विचक्रिकयाः पुरश्चक्रिकावरोधिनी आकृष्यते तर्हि द्विचक्रिका निष्पततति । शनैश्शनैः गच्छतः वाष्पयानात् अवरोहणकालेऽवरोहणानान्तरं सदैव यानगमनस्य दिशि किञ्चिद्दूरं गन्तव्यं अन्यथा पदनादस्थिभङ्गादीन् भविष्यन्ती सम्भाव्यते यदि चेद् गच्छतः वाष्पयानस्य प्रकोष्टकेकश्चिद् कन्दुक ऊर्ध्व्वं प्रति क्षिप्यते तर्हि कन्दुकः पुनः तत्रैव प्रत्यावर्तते । जडवात् कदुकः यानेन सह सततं क्षौतिजदिशि गमनंकरोति यद्यपि तस्येयं गतिरविदितप्रायैव भवति ।
 
[[वर्गः:भौतिकविज्ञानम्]]
"https://sa.wikipedia.org/wiki/जडत्वम्_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्