"प्रजावाणी (कन्नडदिनपत्रिका)" इत्यस्य संस्करणे भेदः

{{Infobox Newspaper | name = प्रजावाणी| type = दिनपत्रिका | format = विशाल... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:५१, ३० अक्टोबर् २०१४ इत्यस्य संस्करणं

“प्रजावाणी” कर्नाटकराज्ये प्रसिद्धासु कन्नडदिनपत्रिकासु अन्यतमा वरीवर्ति । तत्रापि विशेषतः कर्नाटकस्य दक्षिणजिल्लासु अतीव जनप्रियतामापन्नास्ति । पदसम्पदः, चिनकुरळी इत्यादिव्यङ्ग्यचित्राणां विभागैः प्रजावाणी अतिवविशिष्टतमा वर्तते । अस्यां दिनपत्रिकायां प्रकटितासु प्रचलित-राजकीयार्थिकवर्तासु राज्यराष्ट्रस्तरेषु चर्चाः सम्भवन्ति । भारतदेशस्य स्वातन्त्र्यानन्तरं प्रारब्धासु कन्नडदिनपत्रिकासु प्रजावाणी मुख्यस्थानं भजते ।

प्रजावाणी
प्रकारः दिनपत्रिका
विन्यासः विशालपृष्ठानि
स्थापकः (स्थापकाः) के एन् गुरुस्वामी
प्रकाशकः के एन् शान्तकुमार
मुख्यकार्यालयः संख्या 75, महात्मा गान्धिमार्गः, बेङ्गलूरु, कर्णाटकम्, भारतम्
ग्राहकसङ्ख्या

558,453 (as of August 2014)[१]

official website = http://www.prajavani.net/

आरम्भः

१९४८ तमे वर्षे प्रारब्धायाः डेक्कन हेराळड् नामिकायाः आङ्गलदिनपत्रिकायाः अनन्तरं शीघ्रमेव इयं प्रजावाणी दिनपत्रिकाऽपि आरब्धाऽसीत् । १९४८ तमे वर्षे, अक्टोबर मासे ३० दिनाङ्के प्रजावाणी आरब्धा । तथा च शिघ्रतया प्रसिद्धिमवाप १५४८ तमे वर्षे श्रीगुरुस्वामीमहाभागानां दिप्रिण्टर्स् मुद्रणालयद्वारारब्धासीत् । २००८ तमस्य वर्षस्य अक्टोबर मासस्य १० दिनाङ्के अस्याः पत्रिकायाः षष्टिसंवत्सराः पूर्यन्ते । अस्याः सम्पादकः श्री के. एन्. तिलककुमारः आसीत्, ततः श्री . के. एन् . शान्तकुमारः, श्री. बी. पुट्टस्वामय्यः, ततः श्री. खाद्री शामण्णः, श्री. टी. एस्. रामचन्द्ररायः इत्यादयः सम्पादकाः आसन् ।

भूतपूर्वसम्पादकाः

एतावत्रा भूतपूर्वाः सम्पादकाः तावत् एवं सन्ति – श्री.वै. एन्.कृष्णमूर्ती,एम्.वी. सिङ्ग के. एन. हरिकुमारः, के. एन. शान्तकुमारः, के. एन. तिलक कुमारः, के. एन. शान्तकुमारः, श्री मलक्ष्मणकोसे च ।

भूतपूर्वसहसम्पादकाः

पि रामण्णः वी. एम्. कृष्णमूर्ती. जी. एन, रङ्गनाथाएव, श्रीधराचार्यः, शैलसचन्द्रमुत्पः, आर. पीजगदीशः पद्यराजदण्डावतिः च ।

भूतपूर्वसहायकसम्पादकाः

मागडि अपालकृष्णः श्रीधरकृष्णमूर्ती जी. एस्. सदाशिवः डी.वी. राजशेखरः लक्ष्मणकोडसे शिवाजीगणेशः ई.वी. सत्यनारायब्वः इत्यादयः ।

प्रजावाण्याः अनुपुरवणी- साप्ताहिकपुरवणी डति तस्याः अवलोककर्तारः बी. वी. वैकुण्ठराजु, जी. एन् रङ्गनाथराव, डी.वी. राजशॆखरः, गङ्गाधरमोदलियार्, पी के हरिचब्ब इत्यादयः । श्री मलक्ष्मणकोऽसे इदानीन्तनसंम्पादकाः सन्ति ।

  1. "Report July-December 2013". http://www.auditbureau.org/. Audit Bureau of Circulation. आह्रियत 20 August 2014.