"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

No edit summary
जयदेवः (गीतगोविन्दरचयिता) इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[जयदेवः (गीतगोविन्दरचयिता)]]
{{Infobox Hindu leader
|name= जयदेवः
|image = Git govind large.jpg
|caption = [[विष्णुः|विष्णुं]] पूजयन् जयदेवः
|birth_date= est. 1200 क्रि पू
|birth_place= प्रायः जयदेव केण्डुलि, [[पश्चिमवङ्गराज्यम्]] अथवा केण्डुलि सासन्, [[ओरिस्साराज्यम्]]
|birth_name=
|death_date=
|death_place=ओरिस्सा, भारतम्
|guru=
|philosophy= [[वैष्णवमतम्]]
|honors=
|Literary works = ''[[गीतगोविन्दम्]]''
|quote=
|footnotes=
}}
संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता । अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनैः सादरं गीयन्ते । स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेखः कृतः परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते । गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव । तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजातः ! गीतगोविन्दस्यानुवादाः प्रायः सर्वासु भारतीयभाषासु जाताः । आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन् ।
 
जयदेवस्य जन्म १२तमे शतके वङ्गप्रान्ते केन्दुलाख्ये ग्रामेऽभवत् । दुर्दैववशाद्बाल्ये एव तस्य मातापितरौ दिवङ्गतौ । जयदेवो जगन्नाथपुरीमागत्य न्यवसत् । कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थितः । ततोऽनन्तरं तस्य विवाहः सम्पन्नः । पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत् । इतोऽपि तस्य दुर्दैवं न समाप्तम् । यौवने एव तस्य भार्या मृता । अतीव खिन्नः स यशोदानन्दनस्य शिष्यत्वमङ्गीकृतवान् । मृत्योः पूर्वं स स्वग्रामं प्राप्तः । तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत् । अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते । तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति ।
 
==परिचयः==
संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य [[गीतगोविन्दम्|गीतगोविन्द]]काव्यस्य कर्ता अस्ति अयम् । अस्य माता रामादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -
:श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
:पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः '''पद्मावतीचारणचक्रवर्ती''' इति '''वाग्देवताचरितचित्रितचित्तसद्मा''' इति च गीतगोविन्दे कथयामास ।
==जन्मस्थानम्==
ओरिस्साराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केण्डुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
:वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
:किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥
तस्य जन्मस्थानस्य विषये भिन्नाभिप्रायाः विद्यन्ते । केचन कथयन्ति यत् सः पश्चिमवङ्गदेशीयः इति । अयं १२ शतके लक्ष्मणसेनस्य आस्थानकविः आसीत् । गोवर्धनः, शरणः, उमापतिः, कविराजधोयी च तस्य समकालीनाः । अयम् अंशः लक्ष्मणसेनमहाराजस्य सभामन्दिरस्य द्वारशिलापटे उल्लिखितश्लोकोऽयम् अत्र प्रमाणम् । यथा -
:गोवर्धनश्च शरणो जयदेव उमापतिः ।
:कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥
==जीवनम्==
बाल्यकालतः मथुरा-बृन्दावनादिषु पुण्यस्थलेषु अटतः तस्य मनसि राधामाधवयोः कथायाः महान् प्रभावः जातः । जगन्नाथपुर्यां तस्य जीवनस्य महत्त्वपूर्णप्रसङ्गः जातः । तस्मिन् स्थले स्थितस्य कस्यचित् ब्राह्मणस्य पुत्री पद्मावती जगन्नाथप्रभोः अनुग्रहात् प्राप्ता आसीत् । तस्य ब्राह्मणस्य स्वप्ने कदाचित् जगन्नाथेन सूचितं यत् पुत्री वृक्षस्य अधः सुप्तवते जयदेवाय दातव्या इति । नेच्छन् अपि सः ब्राह्मणः स्वपुत्रीं जयदेवाय अयच्छत् । गत्यन्तरेण विना जयदेवेन सा परिणीता । उभयोः गुणशीलेषु सामञ्जस्यम् आसीत् इत्यतः तयोः दाम्पत्यं सुखमयं जातम् ।
:वाग्देवताचरितचित्रितचित्तसद्मा
:पद्मावती चरणचारणचक्रवर्ती ।
:श्रीवासुदेवरतिकेलिकथासमेतं
:एतं करोति जयदेवकविः प्रबन्धम् ॥
यत्र तेन गीतगोविन्दकाव्यं रचितं सः ग्रामः जयदेवपुरमिति ख्यातं जातम् । तेन रचितम् इदं काव्यं लोकमान्यं जातम् । बहवः तदीयशिष्याः जाताः । सः क्रि श १२०० तमे वर्षे दिवङ्गतः इति श्रूयते । पुष्यशुक्लसप्तम्याम् अद्यत्वे अपि जयदेवस्य जयन्ती आचर्यते । राजा प्रतापरुद्रदेवः देवालयेषु गीतगोविन्दं गातव्यम् इति आदिष्टवान् ।
==कवित्वम्==
जयदेवः प्राचीनभारतीयकविषु अन्तिमः आधुनिककविषु आदिमः इति कथयितुं शक्यम् । संस्कृतकाव्यशैल्यां तेन बहवः नूतनाः आविष्काराः कृताः । भक्तिसाहित्यस्य उगमः अत्र दृश्यते । अयं कविः काव्यरचनायाः सर्वान् नियमान् न अपालयत् । अतः गीतगोविन्दकाव्यं शास्त्रीयकाव्यं न । अस्मिन् तेन नूतनशैली आधृता अस्ति या च तदीयकालानुगुणा अस्ति ।<br />
गीतकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यात्मिकश्च । तत्स्मरणमेव शरणम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् । इदं काव्यम् आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलासः इति कथयन्ति विद्वज्जनाः । अयं चन्द्रालोकं, रतिमञ्जरीं, तत्त्वचिन्तामणिं, कारकवादञ्च ग्रन्थान् लिलेख इति केचन कथयन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)
 
[[वर्गः:संस्कृतगीतिकाव्यम्]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्