"ब्रह्मचर्याश्रमः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
: भिक्षाचर्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।
: संध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणः ॥
==ब्रह्मचर्याश्रमे संस्काराः==
चतुर्विधेष्वाश्रमेषु-'''ब्रह्मचर्याश्रमः''' आद्यः । सोऽयमाश्रमो मानवजीवनस्याधारोऽस्ति । भारतीयसस्कृत्या वर्णव्यवस्थानुगुणमाश्रमधर्माः प्रतिपादिताः । तान् धर्मान् प्राप्तुमाश्रमप्रवेशोऽपेक्षते । धर्मसूत्रग्नन्थैः स्मृतिग्नन्थैश्च प्रतिपादितेषु षोडशसंस्कारेषु [[उपनयनसंस्कारः|उपनयनं]], [[वेदारम्भसंस्कारः|वेदारम्भः]], [[समावर्तनसंस्कारः|समावर्तना]]ख्यास्त्रय:ख्यास्त्रयः [[संस्काराः]] आश्रमेऽस्मिन् अन्तर्भूताः सन्ति । तत्र बाल्यावस्थानन्तरभाविनि अभिनववयस्समारम्भे द्वितीयजन्मापादकत्वेन वेदाध्ययनाङ्गत्वेन सङ्कल्पितश्च, अयमुपनयनसंस्कार एव सर्वप्रधानम् । उपनयनस्य पार्यन्तिकं प्रयोजनं वेदाध्ययनाधिकारसिद्धिः ।

==शब्दस्य व्युत्पत्तिः==
वेदाध्ययनं ब्रह्मचर्यस्य पालनपूर्वकं करणीयमिति विधिः । य एवमाचरति स '''ब्रह्मचारी''' इति कीर्त्यते । अत्र ब्रह्म शब्दस्य '''वेदः''' इति अर्थः । तदध्ययनार्थं व्रतमप्युपचारद् ब्रह्म । '''ब्रह्मचरितुं शीलमस्य''' यद्वा '''ब्रह्म तपोज्ञानं वा चरति अर्जयत्यवश्यम्''' इति ब्रह्मचारि शब्दस्य व्याख्यालभ्योऽर्थः ।
Line १५ ⟶ १६:
:आपो ब्रह्म गुरुर्बह्मस् स ब्रह्मणि समाहितः ॥
:एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ॥ [ महाभारतं अश्वमेधिका पर्व २६.१७-१८ ]
==ब्रह्मचर्याश्रमस्य नियमाः==
अस्मिन् विद्याध्ययनमेव प्रधानं कर्म । केवलेन स्वाध्यायेनापि पूर्णता न भवति । तद्वेषभूषापि भिन्ना स्यात् । स्नानादिना स्वास्थाम्, अनिन्द्याचरणेन च मनः शौचं प्रपद्येत । सायं प्रातः सन्ध्योपासनं, भिक्षाटनं, गुरुशुश्रूषणम् इत्यादींश्च कर्मनियमाननुपालयेत् । यथोक्तं महाभारते -
:मेखला च भवे मौञ्जी नित्योदकस्तथा
Line २७ ⟶ २९:
:द्यूतं च जनवादञ्च परीवादं तथाऽनृतम् ।
:स्त्रीणां च प्रेक्षणा लम्भमुपघातं परस्य च ॥ इति ॥[ मनुस्मृति: २/१७५,१७७,१७८,१७९ ]
==ब्रह्मचर्यस्य फलम्==
इहलोके परमपुरुषार्थसाधनं ब्रह्मयर्चमेव । यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवांल्लभते । ब्रह्मचर्येणेव ईश्वरं पूजयित्वा आत्मानमनुविन्दते - इति [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदः]] कथनम् । यथा -
:अथ यद्यज्ञ इत्याचक्षते ब्रह्मयर्चमेव तद्
Line ५४ ⟶ ५७:
:स वै चतुर्थो ब्रह्मचर्यस्य पाद: ॥ [महाभारत,उद्योगपर्व,४४.१०-१५ ]
इत्यादिभिरुपर्युक्तै: महाभारतस्योद्योगपर्वपद्यै: ब्रह्मचर्याश्रमे ‘ब्रह्मचर्यस्य ’स्वरूपं किमिति प्रकाशितम् ।

==ब्रह्मचारिणः कर्तव्यानि==

नित्यं गुरोरभिवादनं,स्वाध्यायसम्पादनं, निरभिमाननंनिरभिमाननम्, अक्रोध:, शिष्यवृत्त्या विद्यार्जनं , पवित्रमाचरणं चेति, इमानि ब्रह्मचर्यस्य प्रथमकर्त्तव्यम् ।

मनसा-वाचा-कर्मणा च प्राणै: धनैरपि आचार्यस्यप्रीणनम्, गुरो: समानं तद् दारदारकेषु आदरश्चेत्यिमानि ब्रह्मचर्यस्य द्वितीयकर्त्तव्यम् ।

गुरुणा यत् कृतं ताद्विज्ञाय, तेनैव कार्यमात्मन: सिद्धमिति मन्मन एव प्रसीदनं ब्रह्मचर्यस्य तृतीयं लक्षणम् ।

Line ६२ ⟶ ६५:
:आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयक: ।
:गुरौ वागुरुपुत्रे वा वसेद् धर्मार्थ कोविद: ॥ इति ॥ [महाभारतं , शान्तिपर्व, २४२-१६ ]
==ब्रह्मचारिभेदः==
ब्रह्मचर्यं द्विविधम् । नैष्ठिकमुपकुर्वाणं चेति । तत्र नैष्ठिकब्रह्मचारी ‘गृहस्थाश्रमं’ प्रवेष्टुं नार्हति ।नैष्ठिक ब्रह्मचर्यं नाम ‘आ जन्म ब्रह्मचर्यपालनम्’ इत्यर्थ: । यो ‘आजन्म ब्रह्मचर्यं विधानमनुपालयितुमीहते तं नैष्ठिको भवितुमाचार्योपदिशति ।अन्यथा ‘गृहस्थाश्रमं ततो ‘वानप्रस्थाश्रमं ’ ततश्च ‘सन्यासाश्रमम्’ इति जाबालोपनिषदि वर्णितम् ।
===द्विविधम्===
ब्रह्मचर्यं द्विविधम् । नैष्ठिकमुपकुर्वाणं चेति । तत्र नैष्ठिकब्रह्मचारी ‘गृहस्थाश्रमं’ प्रवेष्टुं नार्हति ।नैष्ठिक ब्रह्मचर्यंनैष्ठिकब्रह्मचर्यं नाम ‘आ जन्म ब्रह्मचर्यपालनम्’ इत्यर्थ: । यो ‘आजन्म ब्रह्मचर्यं विधानमनुपालयितुमीहते तं नैष्ठिको भवितुमाचार्योपदिशति ।अन्यथा ‘गृहस्थाश्रमं ततो ‘वानप्रस्थाश्रमं ’ ततश्च ‘सन्यासाश्रमम्’‘संन्यासाश्रमम्’ इति जाबालोपनिषदि वर्णितम् ।
“ब्रह्मचर्यं परिसमाप्य गृहीभवेद् गृहीभूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् । यदिवेतरथा ब्रह्मचत्यादेव प्रव्रजेत् गृहाद्वा बनाद्वा । यदहरेव विरजेत्तदहरेव प्रव्रजेत् "-इति ॥

एवं भारतीयभूमौ ब्रह्मचार्याश्रमस्य महत्त्वमवलोक्यते । आश्रमेऽस्मिन् नैष्ठिक:,उपकुर्व्वाणश्चेति ब्रह्मचारी द्विविध: । य आजन्मब्रह्मचर्यव्रतानुपालन-असमर्थोऽस्ति सः गुरुकुले कानिचन वर्षाणि ब्रह्मचर्येण विद्याध्ययनं सम्पाद्य, यथाशक्ति गुरुदक्षिणां प्रदाय, गुरोरनुज्ञया समावर्तन संस्कारमासाद्य गुहस्थाश्रमं प्रविशेत्- तथा हि-
Line ७२ ⟶ ७७:

नेष्ठिक ब्रह्माचारी त्रीण्यपि ऋणानि ज्ञानार्जनेनैवापाकरोति । त्रिभ्य ऋणेभ्यस्तस्य मुक्तिर्नापेक्ष्ते । तदृणं ज्ञानयज्ञ एव लयं याति ।
===चतुर्विधम्===
* गायत्रब्रह्मचारी
गायत्रीमात्रमध्ययनमस्येति गायत्रः । गायत्रब्रह्मचारी तावत् उपनयनानन्तरं त्रिरात्रम् अक्षारलवणाशीसन् गायत्रीमधीत्य सावित्रव्रतसमाप्तिपत्यन्तं व्रतचारी भवति ।
* ब्राह्मब्रह्मचारी
ब्राह्मवेदमधीयतेऽनेनेति ब्राह्मः । ब्राह्मब्रह्मचारी तावत् सावित्रव्रतानन्तरं भैक्षाचरणं व्रताचरणं च कुर्वन् द्वादशवर्षपर्यन्तं वा गुरुकुले स्थित्वा सूत्रसहितवेदाध्ययनं करोति ।
* प्रजापत्यब्रह्मचारी
प्रजापतिर्नारायणो देवता अस्य ध्येयत्वेनेति प्रजापत्यः । प्राजापत्यब्रह्मचारी तावत् ब्रह्मचर्यशीलस्सन् नारायणपारायणो भूत्वा वेदवेदाङ्गार्थान् विचारयति ।
* नैष्ठिकब्रह्मचारी
निष्ठाब्रह्मचर्यमेवनियमो अस्येति नैष्ठिकः । नैष्ठिकब्रह्मचारी तावत् काषाय अजिन वल्कलधारीसन् जठी, मेखली, दण्डी, अक्षारलवणाशीसन् यावदात्मनो विप्रयोगः भवति, तावत्पर्यन्तं गुरुकुलेस्थित्वा भैक्षान्नं प्राश्नाति ।

इति ब्रह्मचारिभेदाः '''वैखानसधर्मसूत्रे''' विशेषतया विलक्षणतया च परिदृश्यन्ते ।
==ब्रह्मचर्यस्य महत्त्वम्==
:एतेन ब्रह्मचर्येण देवा देवा देवत्वमाप्नुवन् ।
:ऋषयश्च माहभागा ब्रह्मलोकं मनीषिणः ॥ [ महाभारत, उद्योगपर्व 44.10 ]
"https://sa.wikipedia.org/wiki/ब्रह्मचर्याश्रमः" इत्यस्माद् प्रतिप्राप्तम्