"वानप्रस्थाश्रमः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[गृहस्थाश्रमः|गृहस्थाश्रमे]] सर्वान् सुखभोगान् भुक्त्वा अपि तेषु आसक्तिम् अकृत्वा इन्द्रियशक्तिषु शिथिलीभूतासु तृप्तात्मना गार्हस्थ्यभारं पुत्रेषु निक्षिप्य वनं समाश्रीयते । सोऽयं तृतीयो '''वानप्रस्थाश्रमः''' । अत्र वनं समाश्रित्य स्वकर्तव्यपालनपुरस्सरं चतुर्थाश्रमस्य पूर्वसिद्धता कर्तव्या अथवा व्यक्तिगतजीवनानुरागम् अपास्य तीर्थयात्रादेशपर्यटनादिद्वारा अथवा समाजसेवाम् एव नारायणसेवा इति मत्वा समष्टिहिताय प्रयतितव्यम् ।
तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्-
:'''देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।'''
==व्युत्पत्तिः==
जीवनस्य तृतीय आश्रमोऽस्ति ‘वानप्रस्थः’ । प्राचीनयुगे ‘वानप्रस्थ’शब्दस्य '''वैखानस'''शब्दः प्रयुक्त इति ज्ञायते । ‘वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः’ ‘वनप्रस्थ एव वानप्रस्थः’ इति याज्ञवल्क्यस्मृतेः ‘मिताक्षरा’ व्याख्यायाः कथनेन नियमपूर्वकं वने चरणं हि वानप्रस्थाश्रम इति ज्ञायते । अस्मिन् आश्रमे संयमपालनं योगादिकर्मसु विशिष्टप्रवृत्तिश्च प्रमुखं कर्म ।

==वानप्रस्थाश्रमस्य कर्तव्यानि==
वार्धक्ये समागते पत्नीं पुत्रेषु विसृज्य अथवा तया साकं धर्माचरणाय ब्रह्मसाक्षात्काराय च वनं गच्छेत् । तत्र च नित्यम् आत्मपरमात्मनोः तत्त्वं विचिन्तयन् संसारबन्धनाद्विषण्णो भवेत् । विषयोपसेवनस्य परित्याग आश्रमस्यास्य प्रथमं कर्तव्यम् ।

निःश्रेयसाधिगमस्यायमाश्रमो द्वारभूतो विद्यते । गृहस्थाश्रमे गृहस्थेषु नैसर्गिकानां क्रोधाभिमानेर्ष्या-तृष्णा-परपीडनादि दोषाणां त्यागः समुत्पद्यते ।
ये ज्ञानयुक्ताः वानप्रस्थाः स्वाश्रमविहितं तपः कर्म, हिरण्यगर्भादिविषयाविद्याः सेवन्ते । भैक्ष्यचर्यां चरन्ति ते क्षीणपुण्यपापकर्माणः सन्तः ब्रह्मलोके महीयन्त-इति मुण्डकोपनिषदः वाक्यम्-
वानप्रस्थः गृहात् वनाश्रमं प्राप्य श्रामणकाग्निकुण्डे विशेषहोमं च करोति । रात्रौ न अश्नाति । जितेन्द्रियस्सन् उत्तरोत्तरे अधिकं तपस्संयोगं च साधयति । दर्शपूर्णमासौ चातुर्मास्यं नक्षत्रेष्टिम् आग्रयणेष्टिं च वनौषिधिभिः यजनं करोति ।
:तपः श्रद्धे ये ह्युपसन्त्यरण्ये
अयं नित्यस्वाध्यायी सन् होमसम्भारान् सम्भरति ।

:शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः ।
कृष्टां भूमिं च नाक्रामति ।

:सूर्यद्वारेण ते विरजाः प्रयान्ति
धान्य धनसञ्चयनं न करोति ।

:यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥
सर्वभूतेषु दयालुस्सन् समः क्षान्तः शुचिः निरसूयकः निस्पृहः माङ्गल्यवान् ईर्ष्याकार्पण्यवर्जी जटाश्मशृरोमनखानि धारयन् त्रिकालस्नानि धराशयो वन्यैरेव चरुपुरोडाशान् निर्वपति ।
इति । [मुण्डकोपनिषद् ११]
वेदवेदान्तेन ध्यानयोगी सन् तपः समाचरति । शरीरं शोषयन् उत्तरोत्तरं तीव्रं तपः करोति ।
’वार्धक्ये मुनिवृत्तीनाम्’ इति महाकवेः [[कालिदासः|कालिदासस्य]] [[रघुवंशम्|रघुवंशस्य]] श्लोकवाक्यमपि वार्धक्ये सर्वोऽपि जनः विषयसुखेष्वनासक्तो मुनिवृत्तिं स्वीकुर्यादिति आशयमेव व्यनक्ति ।
अत्र श्रामणिकाग्निकुण्डं परिशीलयामः । श्रमणां तपसां एतन्मूलं श्रामण्कं भवेत् । अनेन विधानेन एनमाग्निं संसाध्य विशेषहोमं निर्वहति ।
:तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।
===श्रामणकाग्निकण्डलक्षणम्===
श्रामणकाग्निकुण्डं त्रिवेदिसहितं, ऊर्ध्वेवेदिस्तावत् द्वात्रिंशदङ्गुलायता चतुरङ्गुलविस्तारा उन्नता च । मध्यमा वेदिः पञ्चाङ्गुलविस्तारा उन्नता भवति । अस्मिन् अग्निकुण्डे वानप्रस्थः नित्यमौपासनहोमं हुत्वा महाव्याहृतीभिश्च अग्निं साधयति । श्रामणकाग्निकुण्डमेतत् वानप्रस्थधर्मे विशेषतया अस्मिन् वैखानसधर्मसूत्रे परिदृश्यते ।

==वानप्रस्थस्य उल्लेखाः==
* भैक्ष्यचर्यां चरन्ति ते क्षीणपुण्यपापकर्माणः सन्तः ब्रह्मलोके महीयन्त-इति [[मुण्डकोपनिषत्|मुण्डकोपनिषदः]] वाक्यम्-
:'''तपः श्रद्धे ये ह्युपसन्त्यरण्ये'''
:'''शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः ।'''
:'''सूर्यद्वारेण ते विरजाः प्रयान्ति'''
:'''यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥''' इति । [मुण्डकोपनिषद् ११]
* ’वार्धक्ये मुनिवृत्तीनाम्’ इति महाकवेः [[कालिदासः|कालिदासस्य]] [[रघुवंशम्|रघुवंशस्य]] श्लोकवाक्यमपि वार्धक्ये सर्वोऽपि जनः विषयसुखेष्वनासक्तो मुनिवृत्तिं स्वीकुर्यादिति आशयमेव व्यनक्ति ।
* :तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।
:तानेवाग्नीन् परिचरेद् यजमानो दिवौकसः ।
इत्यनेन [[महाभारतम्|महाभारतस्य]] शान्तिपर्वस्थश्लोकेन वानप्रस्थाश्रमप्रवेशः सुस्पष्टः ।
:सदारो वाऽप्यदारो आत्मवान् संयतेन्द्रियः ।
:वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहस्थाश्रमात् ॥
इति तत्रस्थेन श्लोकान्तरेण गृहस्थस्तदाश्रमकृत्यानि साधु निर्वाह्य सपत्नी कोऽपत्नीकोसपत्नीकोऽपत्नीको वानप्रस्थाश्रमं प्रविशेदिति ज्ञायते ।
वार्धक्ये समागते इन्द्रियाणां शैथिल्यकारणात् विषयेभ्यो विरागभावना नैसर्गिकी । तथापि गार्हस्थ्यं प्रति वैराग्योत्पादनाय गार्हस्थ्यदोषा [[महाभारतम्|महाभारते]] एवम् उपवर्णिताः । तथा हि-
:इदं तु दुष्करं कर्म कुटुम्बमभिसंज्ञितम्
Line २३ ⟶ ३६:
:यद्येतदेव कृत्वापि न विमोक्षोऽस्ति कस्यचित्
:धिक् कर्तारं च कार्य च श्रमश्चायं निरर्थकः ॥
धनार्जनादिसांसारिकदायित्वमापूर्य, ऋणेभ्यो मुक्तिं प्राप्य, गृहभारं कर्त्तव्यनिष्ठेषु पुत्रेषु आरोप्य, सर्वविधानि कर्त्तव्यानि परिसमाप्य, विषयपराङ्मुखः सन् वनमभ्येत्यात्मोन्नति कुर्यादिति वानप्रस्थाश्रमस्य व्यवस्थां पूर्वजाः मुनिकविजनाः मुक्तकण्ठं प्रशंसन्ति ।
* कविकुलगुरुः कालिदासः [[अभिज्ञानशाकुन्तलम्|शाकुन्तलनाटके]] रमणीये चतुर्थाङ्के शकुन्तलापतिगृहगमनमभिवर्णयन् कण्वमुखादस्याश्रमस्य वैशिष्ट्यमुपस्थापयति । तथा हि-
:भूत्वा चिराय चतुरन्त महीसपत्नी
:दौष्यन्तिमप्रतिरथं तनयं निवेश्य
Line ३७ ⟶ ५१:
:वनौकसां गृहपतिनामनुत्तमं
:श्रुणुष्व संश्लिष्ट शरीरकारिणाम् ॥

==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/वानप्रस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्