"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
चत्वारः वेदाः भवन्ति । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्ववेदश्चेति]] । एकैकस्यापि [[संहिता]], [[ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषत्]] इत्येवं विभागःविभागाः अस्तिसन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां [[ऋषिः|ऋषीणां]] योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य [[ऋषिः]], [[छन्दः]], [[देवता]] इति त्रितयमस्ति ।
संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरुपणेधर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।
प्रधानतया वेदो द्विविधः मन्त्ररुपोमन्त्ररूपो ब्राह्मणरुपश्चब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरुपोब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारुपव्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरुपबोधकतयायागस्वरूपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरुपप्रतिपादकोयज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रुपंरूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरुपतयावेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च सन्यस्तानामुपयोगीत्यपिसंन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।
 
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् ।
===वेदानां रचना कालः===
प्राचीना भारतीया विद्वांसो वेदानपौरुषेयान् मन्यन्ते, तेषां मते वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्त्या विद्वांसो यथाबुध्दिवैभवंयथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति, पाश्चात्त्यविचारसरणिविदो भारतीया अपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते । अत्र तद्विषयका कतिचन विचाराः प्रस्तूयन्ते ।
===मैक्समूलरमतम्===
मैक्समूलमहोदयस्यमैक्समूलरमहोदयस्य मतेन ऋग्वेदस्य रचना ११५० ई.पू. समीपे जाता । बुध्दधर्मोदयात्बुद्धधर्मोदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्ते । बुध्देनबुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कट्वी आलोचना क्रियते स्म, अपि चोपनिषत्समर्थितं कतिपयतत्त्वजातमात्मसात् क्रियते स्म’ अतो बुध्दात्बुद्धात् पूर्वतना (५०० ई.पू.) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि- छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्च । प्रत्येकयुगविकासे तेन वर्षशतद्वयं कालः कल्पितः, तदनुसारेण बुध्दात्बुद्धात् ६०० वर्षतः पूर्व छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई.पू. समायात् पश्चात्कालिकी न् सम्भवतीति सम्प्रति ऋग्वेदस्य जातस्य ३२०० वर्षाणि जातानीति कथयितुं शक्यमिति तदाशयः । मैक्समूलरमहोदयेनायं कालः सम्भाव्यरुपेणोक्तोसम्भाव्यरूपेणोक्तो न तु निश्चयरुपेणनिश्चयरूपेण, परं तदनुसारिणः पाश्चात्त्यास्तदीयैरेव तर्कैः कालममुं निश्चयरुपेणनिश्चयरूपेण कथयितुं प्रवृत्ताः ।
===डांडा अविनाशचन्द्रदासमतम्===
अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।
===वेदस्थितज्यौतिषतत्त्वाधारं मतम्===
भारते षड् ऋतवो भवन्ति । अमी ऋतवः सूर्यसंक्रमणनिमित्तकाः । इदमपि प्रसिध्दंप्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।
 
===वेदशब्दार्थः===
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् । सयणस्तुसायणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयारलौकिकमुपायंइष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्
:'''प्रत्यक्षेणानुमेत्या वा यस्तूपायो न विद्यते ।'''
:'''एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'''
पङ्क्तिः २६:
सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं चैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि
यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति ।
अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयी तिं‘त्रयीति पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् ।
यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’
:'''अग्नेरऋचो वायोर्यजूषिवायोर्यजूंषि सामादित्यात् ।''' छा. ब्रा.६/१७
:'''अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।'''
:'''दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥''' मनु. १/१३
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्