"छायाग्राहिका" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
पटलेन सह स्लाइडं अन्धकराच्छन्ने प्रकोष्ठे नीत्वा पटल एकस्मिन् रासायनिके मिश्रणे निक्षिप्यते । मिश्रणञ्चेदं डेवलपर् (Developer) इति नाम्नाभिधीयते । अस्य कार्यन्तु पटलस्य तेषु भागेषु यत्र भूयोऽग्रे रासायनिक क्रियायाः प्रवर्तनं भवति तथा च यत्र प्रकाशः प्रक्षिप्तो भवति । अवशिष्टे च भागे अस्य कोऽपि प्रभावो न भवति । डेवलपरस्य रासायनिकक्रियाद्वारा सिल्वरस्य लवणानि सिल्वररूपेण प्रिवर्त्यन्ते । चत्वारि पञ्च वा मिनटानि यावत् डेवलपरे निधानोत्तरं पटलं जलेन प्रक्षाल्य हाइपोपदार्थस्य (Hypo) विलयने निक्षिप्यते विलयनेऽस्मिन् निक्षेपणात् यस्मिन् रासायनिके पदार्थे प्रकाशस्य प्रभावो न भवति स प्रक्षालनेन शोध्यते । क्रिया चेयं फिस्मिङ्गेति (fixing) नाम्नाभिधीयते । फिक्सिङ्गोत्तरं पटलं जलेन अनेकवारं प्रक्षाल्य शुष्कीक्रियते । इथं पटले यत् प्रतिबिम्बं निर्वर्त्यते तद् निगेटिव (Negative) इति नाम्नाभिधीयते यतः तद् वस्तुनः विपरीतं भवति । वस्तुनः ये भागाः शुक्लाः भवन्ति ते निगेटिव कृष्णाः ये च भागाः कृष्णाः सन्ति ते शुक्ला भवन्ति । ऋजु प्रतिबिम्बम् उपलब्धुं निगेटिवं पटलसदृशे एकस्मिन् आलोकग्राहिणि (Light Sensitive) कर्गदे निधाय भूयश्च किञ्चिद् कालं यावत् प्रकाशक्षेपणं क्रियते कर्गदे च निगेटिववत् प्रतिबिम्बं संवर्ध्य स्थिरीकृत्य च ऋजु छायाचित्रं निर्वर्त्यते ।
 
[[वर्गः:गृहोपयोगिवस्तूनि‎]]
"https://sa.wikipedia.org/wiki/छायाग्राहिका" इत्यस्माद् प्रतिप्राप्तम्