"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(edited with ProveIt)
पङ्क्तिः २५:
 
== जन्म, बाल्यं च ==
उत्तरगुजरातराज्यस्य [[महेसाणामण्डल]]स्य [[वडनगर]]नामक: कश्चन लघुग्राम:, यत्र १९५० तमे वर्षे 'सितम्बर'-मासस्य सप्तदशे (१७) दिनाङ्के नरेन्द्रमहोदयस्य जन्म अभवत्।अभवत्<ref>{{cite web | url=http://timesofindia.indiatimes.com/city/ahmedabad/Modi-is-a-Teli-Ghanchi-OBC-BJP/articleshow/34084111.cms | title="'Modi is a Teli-Ghanchi OBC': BJP" | publisher=The Times of India. 23 April 2014. | accessdate=18 नवम्बर 2014}}</ref>। संस्कृते: प्रभावात् औदार्यं, परोपकार:, सामाजिकसेवामूल्यानि च बाल्यादेव वर्धितानि । १९५०-६० मध्ये [[भारत]]-[[पाकिस्थान]]यो: युद्धावसरे लघुवयसि अपि स्थानान्तरणावसरे सैनिकानां सेवां स्वेच्छया अकरोत् । १९६७ तमे वर्षे गुजरातराज्यस्य जलाप्लावेन पीडितानां सेवां कृतवान्। सङ्घटनात्मककार्येषु सामर्थ्यकारणत: मनोविज्ञाने च नैपुण्यकारणात् स: अखिलभारतीयविद्यार्थिपरिषद: छात्रनेतृत्वेन चित:। तत: तेन [[गुजरात]]राज्ये विभिन्नेषु सामाजिक-राजकीय-आन्दोलनेषु महत्त्वपूर्णा भूमिका ऊढा ।
किशोरावस्थाया: आरभ्य एव तेन बह्व्य: समस्या: बहूनि कष्टानि च सम्मुखीकृतानि, परं स्वव्यक्तित्वस्य सम्पूर्णशक्त्या: साहसेन च सर्वाण्यपि आह्वानानि अवसररूपेण परिवर्तितानि । विशिष्य यदा उच्चशिक्षणं प्राप्तुं तेन महाविद्यालय विश्वविद्यालये च प्रवेश: प्राप्त: तदा तस्य मार्ग: सङ्घर्षै: कष्टदायकपरिश्रमै: च आवृत: आसीत् परं जीवनसङ्घर्षे स: सर्वदा एक: योद्धा आसीत्, सत्यनिष्ठ:, सैनिक: च आसीत्। एकवारं पदं पुर: स्थापयित्वा न कदापि पृष्ठत: अवलोकितम्। तेन न कदापि पराजय: अङ्गीकृत:। एवं दृढश्चियेनैव स: राजनीतिशास्त्रम् अधिकृत्य अनुस्नातकाध्ययनं समापयितुं समर्थो जात:। येन भारतस्य सामाजिक: सांस्कृतिक: विकास: च सर्वदा इष्ट: (लक्षित:) तादृशस्य [[राष्ट्रीयस्वयंसेवकसङ्घ]]स्य सङ्घटनस्य कार्येण कार्यम् आरब्धम्। अनेन कार्येण एव नि:स्वार्थता सामाजिकम् उत्तरदायित्वं समर्पणं राष्ट्रवाद: च इत्येतेषां भावना: आत्मसात् कृता:।
== राजकीयजीवने मोदी ==
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्