"माघः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
==कृतयः==
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
 
==माघस्य शैली==
माघे सन्ति त्रयो गुणाः
 
सुविदितमेवैतत् संस्कृतसाहित्ये महाकाविः माघः खल्वत्यन्तं भासुरं रत्नम्। अस्य हि नवाभिनवपदविन्यासविलासो नितराम् उदात्तशैलीम् अनुशेते। अलङ्कारगीभिः गुम्फितशैली माघस्य अत्यन्तभासुरा वर्तते । तेनैव कारणेन एतस्य महाकाव्यं विद्वद्भिः बृहत्त्रय्यां पर्यगण्यत। असाधारणम् अलङ्कारपूर्णं वर्णनं भावगाम्भीर्यं च पदे पदे कवेरस्य काव्यकलायाः उत्कर्षम् उद्‌घोषयति । सर्गे सर्गे अनेकानि पद्यानि वर्णनसौन्दर्येण, भावसौष्ठवेन विचारगाम्भीर्येण चाऽद्वितीयं भावम् उपस्थापयन्ति । चरित्रचित्रण-धुरन्धराणां प्रकृतिपर्यवेक्षणविचक्षणानां गणना-प्रसङ्गे तु माघस्य तुलां नाऽधिरोहति कोऽपि । कविनाऽनेन कृतं वर्णनं सर्वेषाम् एव पाठकानां ह्रदयानि आवर्जयति। वैशिष्टयं च किञ्चित् प्रतिपाद्यते। तद्यथा-
 
:'''उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।'''
:'''वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।'''
 
अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।
 
माघविरचितं '''शिशुपालवधं''' नाम महाकव्यं विंशतिसर्गग्रथितम् । १६५० पद्यैः परिगुम्फितमिदं महाकव्यं संस्कृतसाहित्ये भृशं विराजते । काव्येऽस्मिन् कवेः प्रौढिमा प्रतिपदं दृश्यते। तद्यथा-
 
:'''उदयशिखर-श्रृङ्ग-प्राङ्गणेष्वेव रिंगन्'''
:'''सकमलमुखहासं वीक्षितः पद्मिनीभिः।'''
:'''विनतमृदुकराग्रः शब्दयन्त्या वयोभिः'''
:'''परिपतति दिवोऽङ्के हेलया वालसूर्यः॥'''
 
कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
 
:अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
:निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥
 
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
 
: अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
: अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥
 
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
 
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
 
:मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
:मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥
 
कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-
:'''यां यां प्रियो प्रैक्षत कातराक्षीं'''
:'''सा सा ह्रिया नम्रमुखी बभूव'''
:'''निःशङ्कमन्याः सममाहितेर्ष्या'''
:'''स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥'''
माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-
 
: उपमा कालिदासस्य भारवेरर्खगौरवम्।
: दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इति।
 
वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।
अत एव साहित्यधुरन्धरेण रादशेखरेणेत्थम् अभाणि-
 
:'''कृत्स्नप्रबोधकृद्वाजी भारवेरिव भारवेः।'''
:'''माघेनेव च माघेन कम्पः कस्य न जायते॥'''
 
 
==प्रशंसा==
"https://sa.wikipedia.org/wiki/माघः" इत्यस्माद् प्रतिप्राप्तम्