"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
मदनमोहनस्य पिता व्रजनाथः [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतं]] (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते ते कियता कष्टेन जीवनं यापयन्ति स्म इति । विश्वासतः प्रार्थयमानान् जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् ।
मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः अपरकर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः "किमपि प्रार्थयतु, भगवान् ददाति, वयमपि आशिषः दद्मः" इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङमुखः पण्डितः व्रजनाथः प्रार्थितवान् "भगवान् ! महयम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च" इति ।
पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् १५२५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी ।
सः सन्ध्यासमयः । सर्वगृहेषु दीपज्वालनसमयः । हठाद् घण्टानादः श्रुतः । पण्डितस्य व्रजनाथस्य पुत्रोदयः अभवत् इति जनैः ज्ञातम् । निष्कलङ्कजीवनेन, प्रज्ञापाटवेन, सत्प्रवर्तनेन च सः ग्रामजनानां गौरवपात्रतां गतः आसीत् । सर्वे तं साभिमानं पश्यन्ति स्म । पवित्रग्रन्थानां ज्ञानपरिमलेन पूर्णस्य व्रजनाथगृहस्य पुरतः जनानाम् आनन्दकोलाहलः आसीत् ।
मृत्कुड्यैः निर्मितं लघुगृहं तत् । आगताः सर्वे अभिमानिनः तत्र स्थातुं स्थलं न आसीत् । तेभ्यः सर्वेभ्यः मधुराणि वितरितुं शक्तिरपि नासीत् व्रजनाथस्य । मुकुलितकराभ्याम् एव सः आगतान् स्त्कृतवान् । ते सर्वे तम् अभिनन्द्य, आमन्त्र्य गतवन्तः । बालस्य नामकारणोत्सवः अभवत् । प्रथमाक्षरं मकारः भवेदिति, तेन सौभाग्यं भविष्यतीति उक्तवन्तः ज्येष्ठाः । मदनमोहन इति नाम निश्चितम् । मदनमोहनः सर्वदा हसन् उत्साही सन् अवर्धत ।
पङ्क्तिः ५७:
पितृपितामहैः अनुसृते एव पथि भागवतस्य व्याख्यानानि लिखित्वा कीर्तिप्रतिष्ठाः प्राप्तव्याः इति मदनमोहनस्य इच्छा आसीत् । एतमेव विषयं मातरं निवेदितवान् । पुत्रस्य इच्छां श्रुत्वा मूनादेवी 'अस्माकं स्थितिं भवान् जानात्येव । भवान् यद् योग्यम् इति भावयति तत् करोतु’ इत्युक्तवती । मातुः हृदयं ज्ञातवान् मदनमोहनः कस्याञ्चित् पाठशालायाम् उपाध्यायरूपेण प्रविष्टः । तत्र तस्य वेतनम् आसीत् चत्वारिंशद् रूप्यकाणि । पाठशालातः आगमनानुपदमेव व्यायामं करोति स्म सः । सङ्गीतसाधनेऽपि अङ्कितः जातः सः । मुरल्याः, सितारावाद्यस्य च वादनं ज्ञातवान् । प्रभातसमये, सायं च व्रजनाथः पुत्रं मीरायाः, सूरदासस्य च भक्तिगीतानि शिक्षयति स्म । अकिञ्चनत्वेऽपि दिनानि आनन्देन यापयति स्म सः ।
१८८१तमे संवत्सरे एफ् ए परीक्षाम् उत्तीर्णः अभवत् मदनमोहनः । मैर् सेंट्रल् कलाशालायां पठितवान् सः । ज्ञानसमुपार्जनापिपासया सः आगरायां बि ए कक्ष्यां प्रविष्टः । कार्यान्तरेषु व्यस्ततायाः कारणतः बि ए परीक्षाम् अनुत्तीर्णः । १८८४तमे वर्षे कलकत्ताकलाशालातः स्नातकः जातः सः स्नातकोत्तरपदवीं साधयितुमैच्छत् । तथापि कुटुम्बं क्लिष्टस्थितौ अस्तीति ज्ञात्वा मदनमोहनः उद्योगं प्राप्य मातापित्रोः साहाय्यं कर्तुं निश्चितवान् ।
 
==बहुमुखप्रतिभावान्==
जन्मतः मदनमोहनः कविः । षोडशवयसि एव सः कवितारनाम् आरब्धवान् । अत्यल्पे एव समये सः उत्तमकविः इति प्रसिद्धिं प्राप्तवान् । तस्य कवितानां संग्रहस्य नाम 'मकरन्दः’ इति, प्रथमा कविता च 'राधिकाराणी’ इति आसीत् ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्