"मलयाळम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
}}
 
'''मलयाळम्''' (Malayalam) भारतीयभाषासु अन्यतमा या च [[केरळम्|केरळराज्ये]] अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं [[द्रविडभाषा]]परिवारस्‍य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । {{formatnum:४०००००००}} जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्‌नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरुमण्डलेषुकोयम्बत्तुरमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।
 
मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम '[[चिलप्पतिकारम्शिलप्पधिकारम्]]' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते ।
मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।
 
बेनामी उपयोगकर्ता
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/285814" इत्यस्माद् प्रतिप्राप्तम्