"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १६:
 
== अभियानस्य उद्देश्यम् ==
[[File:ManishaKoirala13.jpg|thumb|right|200px|'''जनसामान्यं स्वच्छतायै प्ररयन्ती अभिनेत्री मनिषा कोइलारा''']]
 
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षिपन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
 
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्