"महाभारतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४९:
 
==महाभारतकथासारांशः==
महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते - उत्तरभारतस्य राज्ञो दुष्यन्तस्य[[दुष्यन्त|दुष्यन्त]]स्य पुत्रस्य भरतस्य[[भरतः|भरत]]स्य वंशधरस्य शान्तनोः प्रपौत्रो - धृतराष्टपाण्डवौ[[धृतराष्ट्रः|धृतराष्ट]][[पाण्डवाः|पाण्डवौ]] आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः - युधिष्ठिरः - भीमः - अर्जुनः - नकुलः - सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्।<br />
 
पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येनस्वमातुल[[शकुनिः|शकुनि]]साहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च[[द्रौपदी|द्रौपदी]]ञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् ।<br />
 
फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण [[अभिमन्युः|अभिमन्योः]] पुत्रं परीक्षितं[[परीक्षित १|परीक्षि]]तं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।
 
==महाभारतस्यादरः==
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्